TBD.
वृद्धातित्येव, देशे इति च। तद्विशेषनं जनपदतदवधी। वृद्धाज् जनपदवाचिनः तदवधिवाचिनश्च प्रातिपदिकात् वुञ् प्रत्ययो भवति शैसिकः। छस्य अपवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि औपुष्टकः। श्यामायनकः। तदवधेरपि जनपा एव गृह्यते न ग्रामः। किम् अर्थं तर्हि ग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच् छं बाधित्वा वुञेव जनपदावधेर् भवति। त्रैगर्तकः।
TBD.
–
1329 जनपदतदवध्योश्च। आदर्शक इति। आदर्शो नाम जनपदः। तत्र भव इत्यर्थः। त्रिगत्रो नाम जनपदविशेषस्यावधिः। जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम्। तदाह–त्रैगर्तक इति।
1058 जनपद। स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते। न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं, `बुञेव यथा स्यान्नान्य'दित्येतदर्थं तस्यावश्यकत्वात्। अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दात् `र्तोत्तरपदा'दिति च्छो न भवति, किंतु `अवृद्धादपि बहुवचनविषया'दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति–त्रैगर्तक इति। `जनपदतदवध्यो'रिति सूत्रे जनपदावधिवाचिन उदाहरणं तु `श्यामायनकः'इत्यादि बोध्यम्। नागरा ब्राआहृणा इति। कत्त्र्यादिषु `माहिष्मती'ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञा `नाग रेयके'इति भाव्यमिति भावः।
TBD.