Table of Contents

<<4-2-125 —- 4-2-127>>

4-2-126 कच्छाग्निवक्त्रगर्तौत्तरपदात्

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव उत्तरपदशब्दः प्रत्येकम् अभिसम्बध्यते। कच्छाद्युत्तरपदाद् देशवाचिनः। प्रातिपदिकाच् च अवृद्धाद् वृद्धाच् च वुञ् प्रत्ययो भवति शैषिकः। छणोरपवादः। दारुकच्छकः। पैप्पलीकच्छकः। काण्डाग्नकः। वैभुजाग्नकः। ऐन्द्रवक्त्रकः। सैन्धुवक्त्रकः। बाहुगर्तकः। चाक्रगर्तकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1331 कच्छाग्नि। कच्छ, अग्नि, वक्त, वर्त-एतदुत्तरपदादित्यर्थः। शेषपूरणेन सूत्रं व्याचष्टे–देशवाचिन इति। छाऽणोरपवादः। दारुकच्छक इति। दारुकच्छे भव इत्यर्थः। काण्डाग्नक इति। काण्डाग्नौ भव इत्यथः। अकादेशे `यस्येति चे'ति इकारलोपः। सैन्धुवक्रक इति। सिन्धुवक्रे भव इत्यर्थः। बाहुवर्तक इति। बहुवर्ते भव इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.