Table of Contents

<<4-2-121 —- 4-2-123>>

4-2-122 प्रस्थपुरवहान्ताच् च

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातित्येव, देशे इति च। अन्तशब्दः प्रत्येकम् अभिसम्बध्यते। प्रस्थपुर वह इत्येवम् अन्तात् देशवाचिनः प्रातिपदिकाद् वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। मालाप्रस्थकः। नान्दीपुरकः। कान्तीपुरकः। पैलुवहकः। फाल्गुनीवहकः। पुरान्तो रोपधस्ततः उत्तरसूत्रैणैव सिद्धम् अप्रागर्थम् इह ग्रहणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1327 प्रस्थपुरवहान्ताच्च। एतदन्तादिति। प्रस्थ, पुर, वह-एतदन्तादित्यर्थः। ननु पुरान्तग्रहणं व्यर्थं, नान्दीपुरक इत्यत्र `रोपधेतोः प्राचा'मित्युत्तरसूत्रेण सिद्धत्वादित्यत आह–पुरान्तेति।

तत्त्वबोधिनी

1057 उत्तरेणेति। रोपधत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.