Table of Contents

<<4-2-119 —- 4-2-121>>

4-2-120 वृद्धत् प्राचाम्

प्रथमावृत्तिः

TBD.

काशिका

ओर् देशे इत्येव। उवर्णान्तात् वृद्धात् प्राग्देशब्वाचिनः। प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेण एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धादेव प्राचाम् अवृद्धान् न भवति इति। मल्लवास्तु माल्लवास्तवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1325 वृद्धात्प्राचाम्। `ओर्देशे ठ'ञित्यनुवर्तते। प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात्। पूर्वेण सिद्धे नियमार्थमिदम्। तदाह– प्राग्देशेत्यादिना। आढकजम्बुक इति। आढकजम्बूर्नाम कश्चिद्ग्रामः। तत्र भव इत्यर्थः। उगन्तात्परत्वाट्ठस्य कः। `केऽणः' इति ह्यस्वः। एवे शाकजम्बुकः। मल्लवास्त्विति। `कश्चित् प्राच्यो ग्राम' इति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.