Table of Contents

<<4-2-10 —- 4-2-12>>

4-2-11 पाण्डुकम्बलादिनिः

प्रथमावृत्तिः

TBD.

काशिका

पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति। अणो ऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेन एव सिद्धे वचनमणो निवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1194 पाण्डुकम्बलादिनिः। तेनेति, परिवृतो रथ इति चानुवर्तते। इनिप्रत्यये नकारादिकार उच्चारणार्थः। ननु `अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह–अणो निवृत्त्यर्थमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.