Table of Contents

<<4-2-10 —- 4-2-12>>

4-2-11 पाण्डुकम्बलादिनिः

प्रथमावृत्तिः

TBD.

काशिका

पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति। अणो ऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेन एव सिद्धे वचनमणो निवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1194 पाण्डुकम्बलादिनिः। तेनेति, परिवृतो रथ इति चानुवर्तते। इनिप्रत्यये नकारादिकार उच्चारणार्थः। ननु `अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह–अणो निवृत्त्यर्थमिति।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.