TBD.
कौमार इत्येतदण्प्रत्ययन्तं निपात्यते ऽपूर्ववचने। पाणिग्रहणस्य अपूर्ववचनम्। उभ्यतः स्त्रियाः अपूर्वत्वे निपातनम् एतत्। अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः। कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः। अपूर्वपतिः कुमारी पतिम् उपपन्ना कौमारी भार्या। प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपूर्वत्वे द्योत्ये। कौमारापूर्ववचने कुमार्या अण् विधीयते। अपूर्वत्वं यदा तस्याः कुमार्यां भवति इति वा। कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्या इति सिद्धम्।
TBD.
–
1196 कौमारापूर्व। तेनेति परिवृतो रथ इति च निवृत्तम्। अविभक्तिक इति। लुप्तप्रथमाक इति भावः। अपूर्वशब्दो भावप्रधान इत्याह–अपूर्वत्वे निपातनमिदमिति। न पूर्व पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात्कुमारीशब्दादण् स्यादित्येकोऽर्थः। कुमारी अपूर्वपतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः। आद्यो उदाहरति–अपूर्वपतिमिति। द्वितीये उदाहरति–यद्वेत्यादि। आद्ये उपयन्तरि प्रत्ययः। द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः।
988 कौमारा। तेनेति निवृत्तम्। `अपूर्व'इति भावप्रधानो निर्देश इत्याह— अपूर्वत्वे इति। अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः। अपूर्वपतिमिति। न पूर्वं पतिर्यस्या इति बहुव्रीहिः। कौमारः परिति। द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः। कौमारीति। इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः, `टिढ्ढा'णिति ङीप्। तत्रोद्धृत। `सास्मिन्पौर्णमासी'ति सूत्रात्प्राक् `तत्रे'त्यधिकारः। पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः।
TBD.