Table of Contents

<<4-2-117 —- 4-2-119>>

4-2-118 विभाषा उशीनरेषु

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातिति वर्तते, वाहीकग्रामेभ्यः इति च। उशीनरेसु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यः विभाषा ठञ्ञिठौ प्रत्ययौ भवतः। आह्वजालिकी, आह्वजालिका, आह्वजालीया। सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1323 विभाषोशीनरेषु। पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। तदाह–एषु ये ग्रामा इति। उशीनरेषु ये ग्रामास्तद्विशेषवाचिभ्यः इत्यर्थः। सौदर्शनो नाम उशीनरदेशे कश्चिद्ग्रामः। सौदर्शनीयेति। ठञ्ञिठयोरभावे वृद्धाच्छः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.