Table of Contents

<<4-2-116 —- 4-2-118>>

4-2-117 वाहीकग्रामेभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातित्येव। वाहीकग्रामवाचिभ्यः वृद्धेभ्यः ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1322 तदाह–वाहीकग्रामवाचिभ्य इति।

तत्त्वबोधिनी

1055 वृद्धादेवेति। `वृद्धाच्चेत्प्राचमेवे'ति विपरीतनियमस्तु न भवति,अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याऽभावात्।

Satishji's सूत्र-सूचिः

TBD.