Table of Contents

<<4-2-115 —- 4-2-117>>

4-2-116 काश्यादिभ्यष् ठञ्ञिठौ

प्रथमावृत्तिः

TBD.

काशिका

काशि इत्येवम् आदिभ्यः ठञ् ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ। इकार उच्चारनार्थः। ञकार एवोभयत्र विपर्यस्तदेशो ऽनुबन्धः। स्त्रीप्रत्यये विशेषः। काशिकी। काशिका। बैदिकी। बैदिका। वृद्धातित्यत्र अनुवर्तते। ये तु अवृद्धाः पठ्यन्ते, वचनप्रामाण्यात् तेभ्यः प्रत्ययविधिः। देवदत्तशब्दः पठ्यते, तस्य एङ् प्राचां देशे 1-1-75 इति वृद्धसंज्ञा। दैवदत्तिकः। वाहीकग्रामस्य तु न अस्ति वृद्धसंज्ञा। दैवदत्तः। कथं भाष्ये उदाहृतं वा नामधेयस्य वृद्धसंज्ञा वेदितव्या देवदत्तीयाः, दैवदत्ताः इति, यावता वृद्धसंज्ञाऽपक्षे काश्यादित्वात् ठञ्ञिठाभ्यां भवितव्यम्? तत्र एवं वर्णयन्ति, वा नामधेयस्य इति व्यवस्थितविभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर् न भवति इति। काशि। चेति। संज्ञा। संवाह। अच्युत। मोहमान। शकुलाद। हस्तिकर्षू। कुदामन्। हिरण्य। करण। गोधाशन। भौरिकि। भौलिङ्गि। अरिन्दम। सर्वमित्र। देवदत्त। साधुमित्र। दासमित्र। दासग्राम। सौधावतान। युवराज। उपराज। सिन्धुमित्र। देवराज। आपदादिपूर्वपदात् कालात्। आपत्कालिकी, आपत्कालिका। और्ध्वकालिकी, और्ध्वकालिका। तात्कालिकी, तात्कालिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1321 काश्यादिभ्यष्ठञ्ञिठौ। ठञ्–ञिठ इति प्रत्ययौ स्तः। ञिठप्रत्यये ञि इति समुदायस्य `आदिर्ञिटुडवः' इति इत्संज्ञायां प्रयोजनाऽभावाञ्ञकार एव इत्, तस्य ञित्स्वरः प्रयोजनम्। ठञ एव विधौ तु ङीप् स्यात्, टाब् न स्यात्। नन्वेवं सति इठप्रत्यये ठस्य इकादेशो न स्यात्, अङ्गात्परत्वाऽभावादित्यत आह–उच्चारणार्थ इति। काशिकीति काश्यां जातादिरित्यर्थः। ठञन्तान्ङीप्। काशिकेति। ञिठप्रत्यये इकादेशे टाप्। वैदिकी वैदिकेति। वेदिर्देशविशेषः। आपदादिपूर्वपदादिति। गणसूत्रम्। ठञ्ञिठावित्येव। आपदादिरिति। आपत् आदिर्यस्येति विग्रहः। आपत्कालिकी आपत्कालिकेति। ठञि ङीप्, ञिठेटाप्। बाहीकग्रामेभ्यश्च। बाहीकाख्याः केचिद्ग्रामाः, तद्विशेषवाचिभ्य इत्यर्थः।

तत्त्वबोधिनी

1054 काश्यादिभ्यः। इकार उच्चारणार्थ इति। उभयत्र ञकार एवानुबन्धःस तस्य व्यत्यासपाठस्तु स्त्रीप्रत्यये विशेषार्थ इति भावः। आपदादीति। गणसूत्रमिदम्।

Satishji's सूत्र-सूचिः

TBD.