Table of Contents

<<1-1-74 —- 1-2-1>>

1-1-75 एङ् प्राचाम् देशे

प्रथमावृत्तिः

TBD.

काशिका

यस्य अचाम् आदिग्रहणम् अनुवर्तते। एङ् यस्य अचाम् आदिः तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति। एणीपचनीयः। भोजकटीयः। गोनर्दीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। प्राचाम् इति किम्? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः। देशे इति किम्? गोमत्यां भवा मत्स्याः गौमताः। प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा। विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती। इति श्रीजयादित्यविरचितायां काशिकायाम् वृत्तौ प्रथमाध्यायसय् प्रथमः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1319 एङ् प्राचां। देशविशेषनाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम्। त्वाधुनिकसंकेतितत्वमेव। तेन घटीयमित्यादि सिद्धम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.