Table of Contents

<<4-2-112 —- 4-2-114>>

4-2-113 न द्व्यचः प्राच्यभरतेसु

प्रथमावृत्तिः

TBD.

काशिका

द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। पौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यचः इति किम्? पान्नागाराः। प्राच्यभरतेषु इति किम्? दाक्षाः। काशीयाः इति कथम् उदाहृतं, यावता काश्यादिभ्यष् ठञ् ञिठाभ्यां भवितव्यम्? न एतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदिशब्देन साहचर्यात्। गोत्रात् तु वृद्धाच्छः एव भवति। ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवति इति स्वशब्देन भरतानाम् उपादानं कृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1315 न द्वयचः। प्राच्येषु [परेषु ?]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः। इञश्चेत्यणोऽपवादः। प्रतिषेध इत्यर्थः। प्राष्ठीया इति। प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः। काशीया इति। काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः। अणो निषेधे वृद्धाच्छः। सिङ्गमिति। तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्र `इञः प्राचा'मिति भरतेब्यो लुङ् न भवति।

तत्त्वबोधिनी

1053 न व्द्चः। अपवाद इति। प्रतिषेध इतर्थः॥ भरतानामग्रहणस्येति। तेन `इञः प्राचा'मिति भरतेभ्यो युवप्रत्ययस्य लुड्न भवति, औद्दालकिः पिता, औद्दालकायनः पुत्र इति `अर्हादगोपुच्छे'ति सूत्रे कैयटः। भवतः। छादिरयं प्रत्ययो न तु शादिः, पदसंज्ञार्थं सित्करणादित्यांशयेनाह–जश्त्वमिति।

Satishji's सूत्र-सूचिः

TBD.