Table of Contents

<<4-2-109 —- 4-2-111>>

4-2-110 प्रस्थौत्तरपदपलद्यादिकौपधादण्

प्रथमावृत्तिः

TBD.

काशिका

प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। उदीच्यग्रामलक्षणस्य अञो ऽपवादः। माद्रीप्रस्थः। माहकीरस्थः। पलद्यादिभ्यः पालदः। पारिषदः। ककारोपधात् नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः। यथा गौष्ठी, नैतकी इति। गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचाम् 4-2-123) इति वुञो ऽपवादः। वाहीकशब्दः कोपधो ऽपि पुनः पठ्यते परं छं (*4,2.114 बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्। पलदी। परिषत्। यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीत। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1312 प्रस्थोत्तरपद। प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः। पलदिः- आदिर्येषामिति विग्रहः। उदीच्यग्रामलक्षणस्य अणोऽपवादः। माहिकिप्रस्थ इति। महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः। पालद इति। पलदिनाम्नि ग्रामे भव इत्यर्थः। नैलीनक इति। निलीनकनाम्नि ग्रामे भव इत्यर्थः।

तत्त्वबोधिनी

1051 प्रस्थोत्तर। उदीच्यमग्रामलक्षणस्याऽञोऽपवादः। पालद इति। `पलदी'ति ईकारान्त इत्येके। नान्त इत्यन्ये। नलोपे सति यणादेशात्संहिता तुल्यैव। वाहीकशब्दः कोपधोऽपि पलद्यादिषु पठ\उfffद्ते परं छं बाधितुम्। अन्यथा अणं बाधित्वापरत्वाच्छ एव स्यात्, कोपधप्रयुक्तोषऽण् अवृद्धे सावकाश इति। यकृल्लोम नि भवो याकृल्लमः। `\तन्'इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः।

Satishji's सूत्र-सूचिः

TBD.