Table of Contents

<<4-2-102 —- 4-2-104>>

4-2-103 वर्णौ वुक्

प्रथमावृत्तिः

TBD.

काशिका

कन्थायाः इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिकः। ठको ऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथा हि जातं हिमवत्सु कान्थकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1304 वर्णौ वुक्। वर्णुसमीपेति। वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणो `जनपदे लुबि'ति लुप्। तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत्।

तत्त्वबोधिनी

1045 वर्णो वुक्। वर्णुरिति। `अदूरभवेश्चे'त्यर्थे सुवास्त्वादित्वादणि `जनपदे लु'बिति लुप्।\र्\नमेहक्वतसित्रेभ्य एव। अमात्य इति। अमाशब्दः समीपवाची स्वरादिः। अमा=समीपे भव इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.