Table of Contents

<<5-3-112 —- 5-3-114>>

5-3-113 व्रातच्फञोरस्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः। च्फञः खल्वपि कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः। अस्त्रियाम् इति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

आयुधजीवि। बाहीकेष्विति। बाहीकाख्यग्रामविशेषेष्वित्यर्थः। क्षौद्रक्य इति। क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः। स एव क्षौद्रक्यः। मालव्य इति। मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः। स एव मालव्यः। टित्त्वान्ङीबिति। एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः। तद्विशेषेति। व्याख्यानादिति भावः।

तत्त्वबोधिनी

907 ब्राआतच्फञो। `पूगाञ्?ञ्योऽग्रामणी'त्यतोऽनुवर्तनादाह—ञ्यः स्यादिति। व्रातवाचिभ्यः `कापोतपाक्यः'इत्युदाहरिष्यति। अस्त्रियां किम्?। कपोतपाका स्त्री। तद्राजत्वादिति। `ञ्यादयस्तद्राजाः'इति सूत्रेणे'ति शेषः। लुग्वक्ष्यत इति। `तद्राजस्य बहुषु'इत्यनेने'ति शेषः। कौञ्जायानीति। इह सति ञ्याप्रत्यये योपधत्वात् `जातेः'इति ङीषबावे चापि रूपे स्वरे च विशेषो बोध्या इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.