Table of Contents

<<4-1-84 —- 4-1-86>>

4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण् ण्यः

प्रथमावृत्तिः

TBD.

काशिका

प्राग्दीव्यतः इत्येव। दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात् च प्रातिपदिकात् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति। दैत्यः। आदित्यः। आदित्यम्। पत्युत्तरपदात् प्राजापत्यम्। सैनापत्यम्। यमाच्चेति वक्तव्यम्। याम्यम्। वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्। वाच्यः। मात्या। पैतृमत्यम्। पृथिव्या ञाञौ। पार्थिवा। पार्थिवी। देवाद् यञञौ। दैव्यम्। दैवम्। बहिषष्टिलोपश्च। बाह्याः। ईकक् च। वाहीकः। ईकञ् छन्दसि। बाहीकः। स्वरे विशेषः। टिलोपवचनम् अव्ययानां भमात्रे टिलोपस्य अनित्यत्वज्ञापनार्थम्। आरातीयः। स्थाम्नो ऽकारः। अश्वत्थामः। लोम्नो ऽपत्येषु बहुषु। उडुलोमाः। शरलोमाः। बहुषु इति किम्? औडुलोमिः। शारलोमिः। सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्। गव्यम्। अजादिप्रत्ययप्रसङ्गे इति किम्? गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्। ण्यादयो ऽर्थविशेषलक्षणादपवादात् पूर्वविप्रतिषेधेन। दितेरपत्यं दैत्यः। वनस्पतीनां समूहः वानस्पत्यम्। कथं दैतेयः? दितिशब्दात् कृदिकारादक्तिनः, सर्वतो ऽक्तिन्नर्थादित्येके इति ङीषं कृत्वा स्त्रीभ्यो ढक् क्रियते। लिङ्गविशिष्टपरिभाषा च अनित्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1003 हलः परस्य यमो लोपः स्याद् वा यमि. इति यलोपः. आदित्यः. प्राजापत्यः. (देवाद्यञञौ). दैव्यम्. दैवम्. (बहिषष्टिलोपो यञ्च). बाह्यः (ईकक्च)..

बालमनोरमा

तत्त्वबोधिनी

887 दित्यदित्या। पतिशब्दस्योत्तरपदशब्देन बहुव्रीहि कृत्वा पश्चद्द्वन्दः कार्यो, न तु द्वन्द्वोत्तरं बहुव्रीहिरित्याह–पत्युत्तरपदाच्चेति। `पत्यन्ता दुत्युच्यनाने बह्वच्पूर्वादपि स्यादित्युत्तरपदग्रहणं कृतम्। दैत्य इति। ननु दितेर्देवताद्यर्थेण्यः सावकाशः, `इतश्चानिञः'इत्यपत्ये ढक् दौलैय इत्यादौ सावकाशः, तथा च दितेरपत्यमित्यत्रोभयप्रसङ्गे परत्वाल्लुक्स्यात्। मैवम्। `ण्यादयोऽर्थविशेषलक्षणादणपबादात्पूर्वविप्रतिषिद्ध'मिति भाष्ये पूर्वविप्रतिषेधाश्रयणात्। अर्थविशेषे इति किम्\त्?। औष्ट्रपतम्। उष्ट्रपतिर्नाम पत्रम्। `तस्येदम्' `पत्राध्वर्युपरिपदश्चे'त्यञ्। इह पूर्वविप्रतिषेधेन `तस्येद'मित्यर्थे ण्यो न भवति, इदमित्यस्य सामान्यार्थत्वात्। कथं तर्हि `दैतेयः'इति ?। अत्राहु—`कृदिकारा'दिति ङीषन्तात् `स्त्रीभियो ढत्'। ण्यस्तु न भवति, लिङ्गविशिष्टपरिभाषाया अनित्यत्वात्। न च `अन्तादिवच्चे'ति पूर्वस्यान्तवद्भावेन स्यादेव ण्य इति भ्रमितव्यम्। दितिशब्दान्ङीषि कृते `यस्येति चे'ति लोपेन सवर्णदीर्घाऽभावा'दिति। आदित्यशब्दाण्ण्यप्रत्यये `यस्ये'ति लोपे `हलो यमा'मिति पाक्षिको यलोपः। न चाल्लोपस्य स्तानिवत्त्वं, यलोपे `न पादन्ते'ति तन्निषेधात्, `पूर्वत्रासिद्धे न स्थानिव'दित्युक्तेश्च। काशिकायामिति। भाष्ये तु न दृष्टमिति भावः। अणन्तात्स्वार्थिकेन ष्यञा प्रयोगः सूपपादः। स्त्रियां ङीष्न भवति, षितां ङीषोऽनित्यत्वात्। स्त्रीलिङ्गमुदाहरति–पार्थिबा। पार्थिवीति। टिलोपवचनम् `अव्ययानां भमात्रे' इत्य्स्याऽनित्यतां ज्ञापयितुम्। तेन `आरातीय'इति सिद्ध्म्। बलवाचिनः स्थामन्शब्दस्यापत्येन योगाऽसंभवाद्वचनारम्भसामथ्र्यात्तदन्तविधिः स्यादिति वाच्यं, जाताद्यर्थे तत्संभवेन सामर्थ्योपक्षयात्। अ\उfffदास्येव स्थाम यस्येति बहुव्रीहिः। लोमान्यस्येति विग्रहः। केवलस्यापत्येन योगाऽभावात्तदन्तविधिस्ततोऽकारष्टिलोपः। गोरिति। न केवलमपत्य एवायं, किं तु प्राग्दीव्यतीयेषु सर्वेष्वर्थेष्विति ज्ञेयम्। गव्यमिति। गवि भवं, गौर्देवता अस्य, गोरिदमित्यादिरर्थः। केचित्तु भाष्ये सर्वग्रहणात्प्राग्दीव्यतीयेभ्योऽन्यस्मिन्नर्थेप्ययं यत्। तेन गवा चरति गब्य इत्याद्यपि भवतीतच्याहुः। गोरुष्यमित्यादि। `हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' `मयट् चे'ति रूप्यमयटौ।

Satishji's सूत्र-सूचिः

TBD.