TBD.
अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेषु अण् प्रत्ययो भवति। पत्युत्तरपदाद् ण्यं वक्ष्यति, तस्य अपवादः। आश्वपतम्। शातपतं। अश्वपति। शतपति। धनपति। गणपति। राष्ट्रपति। कुलपति। गृहपति। धान्यपति। पशुपति। धर्मपति। सभापति। प्राणपति। क्षेत्रपति।
TBD.
1001 एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु. अश्वपतेरपत्यादि आश्वपतम्. गाणपतम्..
1058 अ\उfffदापत्यादिभ्यश्च। चकारात् `प्राग्दीव्यतोऽ'णित्यनुकृष्यते। तदाह– एभ्योऽण् स्यादिति। दीव्यतः प्राक्–प्राग्दीव्यत्। `अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः। `झयः' इति टच् तु न, तस्य पाक्षिकत्वात्। प्राग्दीव्यति भवाः- प्राग्दीव्यतीयाः। `वृद्धाच्छः'। `अव्ययात्त्यबि'ति तु न, अव्ययीभावस्याव्ययत्वे `लुहृउखस्वरोपचाराः प्रयोजन'मिति परिगणनात्। अत एव `अव्ययानां भमात्रे टिलोपः' इत्यपि न भवति। ननु `प्राग्दीव्यतोऽ'णित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह– वक्ष्यमाणस्येति। `दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः।
884 प्राग्दीव्यतीयेष्विति। दीव्यतः प्राक्प्राग्दीव्यत्। `अपपरिहहिरञ्चवः पञ्चम्या' इत्यव्ययीभाव'इति प्राञ्चः। `प्राग्दीव्यत'मिति तूचितम्, `झयः'इति टच्प्रवृत्ते'रिति केचित्। तन्न। `झयः'इति टचः पाक्षिकत्वात्। अन्यथा `उपसमिधमुपसमि'दिति तत्सूत्रस्थमूलोदाहरणस्याऽसङ्गत्यापत्तेः। न चाऽत्र टचोऽभावे `अव्ययानां भमात्रे'इति टिलोपे `प्राग्दीव्यतीय'इति रूपं न स्यादिति शङ्क्यम्। अव्ययीभावस्याव्ययत्वे प्रयोजनं `लुङ्भुखस्वरोपचारः'इति परिगणनात्। प्राग्दीव्यति भवः प्राग्दीव्यतीयः। `वृद्धाच्छः'। त्यप्तु न शङ्कनीय एव, `अमेहक्वतसित्रेभ्य एव' इति परिगणनात्। `\त्लुङ्भुखस्वर'इत्यादिपरिगणनया अनव्ययत्वाच्च। वक्ष्यमाणस्येति। `पत्युत्तरपदाण्ण्यः'इति वक्ष्यमाणस्य।
TBD.