TBD.
क्रौडि इत्येवम् आदिभ्यश्च स्त्रियां ष्यङ् प्रत्ययो भवति। अगुरूपोत्तमार्थ आरम्भः। अनणिञर्थश्च। कौड्या। लाड्या। कौडि। लाडि। व्याडि। आपिशलि। आपक्षिति। चौपयत। चैटयत। शैकयत। बैल्वयत। वैकल्पयत। सौधातकि। सूत युवत्याम्। भोज क्षत्रिये भौरिकि। भौलिकि। शाल्मकि। शालास्थलि। कापिष्ठलि। गौलक्ष्य। गौकक्ष्य।
TBD.
–
1182 क्रौड\उfffदादिभ्यश्च। `प्रत्ययविधि'रिति भाष्योक्तं पक्षान्तरमाश्रित्याह– ष्यङ्प्रत्यय इति। पूर्वेण सिद्धे किमर्थमिदमित्यत आह– अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति। क्रौड\उfffदेति। क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्, चाप्। इह `त्र्यादीनामन्त्यमुत्तम'मित्युक्तेर्न गुरूपोत्तमत्वम्। मनुष्यनामत्वे त्वण्। `गौकक्ष्य' शब्दो गर्गादिञन्तः। तस्य अनणिञन्तत्वेऽपि ष्यङ्। सूतयुवत्वामिति। गणसूत्रमिदम्। सूतशब्दो युवत्या ष्यङं लभत इत्यर्थः। सूत्रेयति। प्राप्तयौवनेत्यर्थः। जातौ तु सूतीत्येव। भोज क्षत्रिये। इदमपि गणसूत्रम्।
978 क्रौड\उfffदादिभ्यश्च। पञ्चमीनिर्देशात्प्रत्ययत्वमेवेहाश्रीयत इत्याह–ष्यङ् प्रत्यय इति। क्रौडि, व्याडि, आपिशलि, गौकक्ष्य—इत्यादि। गौकक्ष्यशब्दो गर्गादियञन्तस्तदर्थमाह—अनणिञन्तार्थश्चेति। सूतेति। गण सूत्रम्। सूतशब्दः ष्यङं लभते युवत्यां वाच्यायामित्यर्थः। सूत्येति। ष्यङि `यङश्चार्'। अन्यत्र तु क्रियाशब्दाट्टाप्। सूतजातिवाचिनस्तु ङीष्। सूती। भोजेति। इदमपि गणसूत्रम्। जातिलक्षणङीषोऽपवादः ष्यङ्। क्रियाशब्दात्तु टाबेव—भोजयतीति भोज्या।
TBD.