Table of Contents

<<4-1-67 —- 4-1-69>>

4-1-68 पङ्गोश् च

प्रथमावृत्तिः

TBD.

काशिका

पङ्गुशब्दात् स्त्रियां ऊङ् प्रत्ययो भवति। पङ्गूः। श्वशुरस्य उकाराकारलोपश्च वक्तव्यः। श्वश्रूः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1275 पङ्गूः. (श्वशुरस्योकाराकारलोपश्च). श्वश्रूः..

बालमनोरमा

516 पङ्गोश्च। `ऊ'ङिति सूत्रशेषः। भग्नपादत्वं पङ्गुत्वं न जातिः, आसीने शयाने च आकृत्या दुग्र्रहत्वात्, एकस्या व्यक्तौ `विकलपादोऽयं पङ्गु'रिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यस्थेषु तस्य दुग्र्रहत्वात्, गोत्रचरणानन्तर्भावाच्च। ततश्च `ऊङुतः' इत्यप्राप्तौ वचनमिदम्। \उfffदाशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे ङीषि प्राप्ते तदपवाद ऊङ्, तत्संनियोगेन रेफादकारस्य शकारादुकारस्य लोपश्चेत्यर्थः। नच वकारादकारस्य लोपः शङ्क्यः, `अन्त्यबाधेऽन्त्यसदेशस्ये'ति वचनात्। `यस्येति चे'ति तु नात्र भवति, ईकारे तद्धिते च तद्विधानात्। ननु \उfffदाशूरित्यत्र कथं स्वादयः, `ङ्याप्प्रातिपदिका'दित्यधिकृत्य तद्विधेः, अस्य च ङ्याबन्तत्वाऽभावात्, ऊङन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाऽभावादित्यत आह–लिङ्गविशिष्येति। `प्रातिपदिकग्रहणे लिङ्गविशिष्यस्यापि ग्रहण'मिति परिभाषयेत्यर्थः। वस्तुतस्तु \उfffदाशुरस्येति वचनममूलकमेव, भाष्येऽदृष्टत्वात्, `ङ्याप्प्रातिपदिका'दिति सूत्रस्थभाष्यविरोधाच्च। तत्र हि `ङ्याप्प्रातिपदिका'दित्यत्र ऊहोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादूङ् विधीयते। तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम्। यदि ह्रुक्तरीत्या \उfffदाश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव। तथाच \उfffदाश्रूरित्यव्युत्पन्नं प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम्।

तत्त्वबोधिनी

465 पङ्गोश्च। अजात्यर्थमिदम्। पङ्गुशब्दो हि गुणवाची। प्राप्ते ऊङ् तत्संनियोगेन च विधीयमानो लोपः संनिहितत्वादन्तस्यैवाऽकारस्य न त्वादेः। एतच्च वचनं `\उfffदाशुरः \उfffदाश्र्वे'ति निर्देशसिद्धार्थकथनपरम्। अतोऽपि प्रथमाकारस्य लोपो न शङ्क्यः।

Satishji's सूत्र-सूचिः

TBD.