Table of Contents

<<4-1-53 —- 4-1-55>>

4-1-54 स्वाङ्गाच् च उपसर्जनादसंयोगौपधात्

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहेः क्तान्तादन्तोदात्तातिति सर्वं निवृत्तम्। वाग्रहणम् अनुवर्तते। स्वाङ्गं यदुपसर्जनम् असंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। चन्द्रमुखी, चन्द्रमुखा। अतिक्रान्ता केशानतिकेशी, अतिकेशा माला। स्वाङ्गातिति किम्? बहुयवा। उपसर्जनातिति किम्? अशिखा। असंयोगोपधातिति किम्? सुगुल्फा। सुपार्श्वा। अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्। मृद्वङ्गी, मृद्वङ्गा। सुगात्री, सुगात्रा। स्निग्धकण्ठी, स्निग्धकण्ठा। अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्। अतत्स्थं तत्र दृष्टं चेत् तेन चेत्तत्तथायुतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1268 असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष्वा स्यात्. केशानतिक्रान्ता - अतिकेशी, अतिकेशा. चन्द्रमुखी चन्द्रमुखा. असंयोगोपधात्किम्? सुगुल्फा. उपसर्जनात्किम्? शिखा..

बालमनोरमा

503 स्वाङ्गच्च। उपसर्जनादिति असंयोगपधादिति च स्वाङ्गादित्यत्रान्वेति। स्वाङ्गादित्येतदत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः। तदाह–असंयोगोपधमित्यादिना। वा ङीषिति। `अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति `अन्यतो ङीष्' इत्यतो हीषित्यस्य चानुवृत्तेरिति भावः। बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्क्य परिहरति– केशानतिक्रान्तेति। `अत्यादयः क्रान्ताद्यर्थे' इति समासस्तत्पुरुषः। अत्र बहुव्रीहित्वाऽभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः। `एकविभक्ति चापूर्वनिपाते' इति केशशब्दस्योपसर्जनत्वम्। चन्द्रमुखी चन्द्रमुखेति। चन्द्र इव मुखं यस्या इति विग्रहः। सुगुल्फेति। सु=शोभनौ गुल्फौ यस्या इति विग्रहः। `पदङ्घ्रिश्चरणोऽस्त्रियाम्'। तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः। उपसर्जनात्किमिति। केवलकेशादिशब्दानामनुपसर्जनानां स्त्रीत्वविरहादेवाऽप्राप्तेः प्रश्नः। शिखेति। अत्र स्वाङ्गान्तत्वात्केवलशिखाशब्दान्ङीष्निवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम्। अन्यथा टापं बाधित्वा पक्षे ङीष् स्यादिति भावः। `शोभना शिखा सुशिखे'ति क्वचित् पुस्तकेषु दृष्टं, तत् प्रक्षिप्तं वेदितव्यम्। टाबन्तेन समासेऽनदन्तत्वादेव प्राप्तिविरहात्। ननु स्वस्य अवयवीभूतस्य अङ्गं-स्वाङ्गम् . तथा च सुमुखा शालेत्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात्। किंच सुकेशी रथ्येत्यत्राऽब्याप्तिः, तत्र केशानां रथ्याङ्गत्वाऽभावादित्यत आह– स्वाङ्गं त्रिधेति। `अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्। अतत्स्थं तत्र दृष्टं च, तेन चेतत्तथायुतम्।' इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमित्यर्थः। तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति–अद्रवमिति। न विद्यते द्रवो यस्य तत्- अद्रवम्। द्रव्यमिति यावत्। प्राणिनि=प्राणवति जन्तौ विद्यमानं प्राणिस्थम्, अविकारजं=रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः। `अद्रव'मित्यस्य प्रयोजनमाह–सुस्वेदेति। सु=शोभनः, स्वेदः=घर्मज उदकप्ररुआवो यस्या इति विग्रहः। स्वेदस्य शोभनत्वं तु दुर्गन्धाऽभावः। द्रवत्वादिति। `न स्वाङ्गत्व'मिति शेषः। अतो न ङीषित्यर्थः। `मूर्तिम'दित्यस्य प्रयोजनमाह–सुज्ञानेति। सु=शोभनं ज्ञानं यस्या इति विग्रहः। अमूर्तत्वादिति। `न स्वाङ्गत्व'मिति शेषः। `प्राणिस्थ'मित्यस्य प्रयोजनमाह–सुमुखा शालेति। सु=शोभनं मुखं प्रथमभागो यस्या इति विग्रहः। अप्राणिस्थत्वादिति। `न स्वाङ्गत्व'मिति शेषः। `अविकारज'मित्यस्य प्रयोजनमाह– सुशोफेति। सु=अधिकः शोफः=\उfffदायथुर्यस्या इति विग्रहः। `शोफस्तु \उfffदायथुः' इत्यमरः। विकारजत्वादिति। रोगजत्वादित्यर्थः। `न स्वाह्गत्व'मिति शेषः। \र्\नतत्स्थं तत्र दृष्टं चेति। द्वितीयं स्वाङ्गलक्षणम्। तच्छब्देन प्राणी परामृश्यते। अतत्स्थम्= अप्राणिस्थं, तत्र=प्राणिनि, दृष्टं यत् तदपि स्वाङ्गमित्यर्थः। रथ्येति। रथ्यास्थानां केशानां प्राणिस्थत्वाऽभावात्पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः। उक्तलक्षणमुदाहरणे योजयति–अप्राणिस्थस्यापीति। इदानीं प्राणिस्थत्वाऽभावेऽपि कदाचित् प्रामिस्थत्वादपि स्वाङ्गत्वमित्यर्थः। स्वाङ्गलक्षणम्। अत्र भाष्ये `स्वाङ्गमप्राणिनोऽपि' इति शेषः पूरितः। चेदिति यद्यर्थे। तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत्=अप्राणिद्रव्यं प्रतिमादि, तथा=प्राणिद्रव्यवत्, युतं=संबद्धं यदि, तदा तत्=स्तनाद्याकृतिकं अप्राणिनोऽपि स्वामित्यर्थः। सुस्तनी सुस्तना वा प्रतिमेति। सु=शोभनौ स्तनौ=स्तनाकृती अवयवौ यस्या इति विग्रहः। प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाऽभावात् प्राम्यन्तरेऽदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम्। अथोदाहरणे लक्षणं योजयति– प्राणिवदिति। सुप्तम्यन्ताद्वतिः। प्राणिवत्-प्राणिसदृशे=प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः। नच `कल्याणपाणिपादे'ति बहुव्रीहावपि ङीष् स्यादिति वाच्यम्, `अस्वाङ्गपूर्वपदाद्वा' इत्यनुवृत्तेः। अत्र हि पाणिपादेति समुदायो न स्वाङ्गं, किन्तु स्वाङ्गसमुदाय एव यत्तु स्वाङ्गं पादेति न तु तदस्वाङ्गात्पूर्वपदात् परम्, पाणिपदेन व्यवधानात्। तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात्पूर्वपदात् कल्याणशब्दात् परत्वाऽभावान्न ङीषिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

454 स्वाङ्गाच्चोप। इह बहुव्रीहेरिति नानुवर्तते इति ध्वनयन्नुदाहरति—अतिकेशीति। शिखेत्। `शीङः खो ह्यस्वश्चे'ति खः। तदन्ताट्टाप्। अन्यथा टापं बाधित्वा ङीष् स्यादिति भावः। [केचित्तु सुशिखेत्यपि प्रत्युदाहरन्ति। तच्चिन्त्यम्। टाबन्तेन समासेऽनदन्तेत्वेन ङीषः प्राप्त्यभावात्। न च टापः प्रागेव कृदन्तेनैव समासाददन्तत्वमस्तीति वाच्यम्, तथा हि सति शोभना शिखा सुशिखेत्यर्थस्याऽलाभादिति नव्याः]। यद्यत्र स्वमङ्गं गृह्रते तर्हि सुमुखा शालेत्यत्रापि स्यात्, मुखस्य शालाङ्गत्वात्। सुकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाऽभावात्। अतोऽव्याप्त्यतिव्याप्तिपरिहार्थमाह—।\र्\नद्रवं मूर्तिमत्खाङ्गं प्राणिस्थमविकारजम्। स्वाङ्गं त्रिधेति। मूर्तिमदिति। स्पर्शवद्द्रव्यपरिमाणं मूर्तिः। प्राणीति। मुखनासिकासञ्चार वायुः प्राणः। सुमुखा शालेति। एवं च `फलमुखी कारणमुखी वाऽनवस्थे'त्यादिप्रयोगाः प्रामादिका इति भावः। प्रतिमादिगतस्तनस्य प्राणिन्यदृष्टत्वात्स्वाङ्गत्वं न प्राप्नोतीति तृतीयलक्षणमाह–तेन चेदिति।येनाऽह्गेन प्राणिरूपं वस्तु यथा युतं तेन=तत्सदृशेनाऽङ्गेन तदप्राणिरूपं वस्तु तथा=प्राणिवद्युतं=युक्तं चेत्तदप्यप्राणिनि दृष्टं स्वाङ्गमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.