TBD.
अन्तोदात्तात् क्तातिति अनुवर्तते। अस्वाङ्गपूर्वपदादन्तोदात्तात् क्तान्ताद् बहुव्रीहेः स्त्रियां वा ङीष् प्रत्ययो भवति। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। शार्ङ्गजग्धी, शार्ङ्गजग्धा। पलाण्डुभक्षिती, पलाण्डुभक्षिता। सुरापीती, सुरापीता। अस्वाङ्गपूर्वपदातिति किम्? शङ्खभिन्नी। ऊरुभिन्नी। अन्तोदात्तातित्येव, वस्त्रच्छन्ना। वसनच्छन्न। बहुलं संज्ञाछन्दसोरिति वक्तव्यम्। प्रवृद्धविलूनी, प्रवृद्धविलूना। प्रवृद्धा च असौ विलूना च इति। न अयं बहुव्रीहिः।
TBD.
–
502 अस्वाङ्गपूर्वपदाद्वा। स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते। अस्वाङ्गं यत् पूर्वपदं तस्यात् परं यत् क्तान्तं तदन्ताद्बहुव्रीहेर्ङीष् वा स्यादिति सूत्रार्थः। यद्यपि `अस्वाङ्गं पूर्वपदं यस्य तस्मात् क्तान्तबहुव्रीहे'रित्यपि व्याख्यातुं शक्यं, तथापि उत्तरसूत्रेऽस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम्। ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदक्तदान्तबहुव्रीहित्वान्ङीष्विकल्पः स्यादित्याशङ्क्याह– पूर्वेणेति। `बहुव्रीहेश्चान्तोदात्ता'दिति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः। एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य चेहापि संबन्धाद्बहुकृतेत्यादौ नातिप्रसङ्ग इति भावः। सुरापीति सुरापीतेति। सुरा पीता ययेति विग्रहः। ऊरुभिन्नीतिवत् पूर्वनिपातः। अन्तोदात्तात्किमिति। `बहुव्रीहेश्चे'त्यत्र श्रुतम्, `अस्वाङ्गपूर्वपदाद्वा' इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत्किमर्थमिति प्रश्नः। वस्त्रच्छन्नेति। ऊरुभिन्नीतिवत्पूर्वनिपातः। अथ वस्त्रच्छन्नेत्यत्र `जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वमाशङ्क्य निरस्यति–अनाच्छादनादिति। तथाच बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतदिति भावः। अत एवेति। `अस्वाङ्गपूर्वपदा'दित्यनेन `बहुव्रीहेश्चे'ति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च ङीष् नेत्यर्थः। अन्तोदात्तत्व एवोभयोः प्रवृत्तेरिति भावः।
453 पूर्वेण नित्यं प्राप्त इति। एतेन विकल्पोऽप्ययं जातिपूर्वादेवेति ध्वनितम्। कथं तर्हि `पुत्रहती'त्यत्र `अस्वाङ्गपूर्वपदा'दिति वा ङीषिति कैयटः, पुत्रशब्दस्याऽजातिवाचकत्वात्। अन्यथा `पुत्रादिनी'त्यत्र `सुप्यजातौ—-'इति णिनिर्न स्यात्। यदि त्वदनमादः, सोऽस्यास्तीति आदिनी, पुत्राणामादीनीति विगृह्र कथंचित्साधितेऽपि `जातिकालसुखादिभ्यः'इत्यन्तोदात्तविधायकसूत्रे `जातेः किं, पुत्रायातः'इति वक्ष्यमाणमूलग्रन्थो विरुध्यत एवेति चेदुच्यते— `प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः। असत्त्विलिङ्गां बह्वार्थां ता जातिं कवयो विदुः'—इति भाष्ये लक्षणान्तरमुक्तम्। `सत्त्वस्य द्रव्यस्य प्रादुर्भावविनाशाभ्यां प्रादुर्भावतिरोभावौ या प्राप्नोति। यावद्द्रव्यभाविनीत्यर्थः। गुणैर्युगपद्द्रव्येण सम्बध्यते। बह्वर्थां। सर्वव्यक्तिव्यापिनीमित्यर्थः। तां जाति'मित्यादि कैयटेन व्याख्यातम्। एवं च पुत्रत्वस्य यावद्द्रव्यभावित्वेनोक्तलक्षणलक्षितत्वाज्जातिवाचक एव पुत्रशब्द इति `अस्वङ्गेति वा ङी'षिति ग्रन्थस्तत्र न विरुध्यते। `आकृतिग्रहणा जाति'रित्यादिमुख्यपक्षाश्रयणे तु पुत्रत्वास्याऽजातित्वाज्जातेः किं, `पुत्राऽऽयात'इति ग्रन्थोऽपि सङ्गच्छत इति दिक्। केचिदर्वाचीनास्तु पुत्रहती पुत्रग्धीत्यत्र `क्तादल्पाख्याया'मित्यनेन ङीषामाहुः। सुरापीतीति। पीता सुरा यया सा। `जातिकाले'ति सूत्रवार्तिकाभ्यां निष्ठाया अन्तोदात्तत्वपरनिपातौ। वस्त्रच्छन्नेति। बहुव्रीहिस्वरेण पूर्वपदपर्कृतिस्वरे शेषनिघाते, च कृते अनुदात्तान्तोऽयम्।
TBD.