Table of Contents

<<4-1-51 —- 4-1-53>>

4-1-52 बहुव्रीहेश् च अन्तोदत्तात्

प्रथमावृत्तिः

TBD.

काशिका

क्तातित्येव। बहुव्रीहिर् यो ऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिह उदाहरणम्। अस्वाङ्गपूर्वपदाद् विकल्पं वक्ष्यति। शङ्ख्यभिन्नी। ऊरुभिन्नी। गललोत्कृत्ती। केशलूनी। बहुव्रीहेः इति किम्? पादपतिता। अन्तोदात्ताज् जातप्रतिषेधः। दन्तजाता। स्तनजाता। पाणिगृहीत्यादीनाम् अर्थविशेषे। पाणिगृहीती भार्या। यस्य अस्तु कथञ्चित् पाणिर् गृह्यते पाणिगृहीता सा भवति। अबहुनञ्सुइआलसुखादिपूर्वादिति वक्तव्यम्। बहुकृता। नङ् अकृता। सु सुकृता। काल मासजाता। संवत्सरजाता। सुखादि सुखजाता। दुःखजाता। जातिकालसुखाऽदिभ्यो ऽनाच्छादनात् क्तो ऽकृतमित. प्रतिपन्नाः 6-2-170 इत्येवम् आदिना भौव्रीहेरन्तोदात्तत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

501 बहुव्रीहेश्च। क्तादिति अत इति चानुवर्तते। तदाह–बहुव्रीहेरिति। क्तान्तादिति। क्तान्तान्तादित्यर्थः। तेनेति। जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः। `सुखादिभ्यः कर्तृवेदनाया'मित्यत्र सुखादिगणः पठितः। जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः' इति, `नञ्सुभ्या'मिति `बहोर्नञ्वदुत्तरपदभूम्नी'ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि। अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः।\र्\नूरुभिन्नीति। ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः। `निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति, `जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति वार्तिकात्। `जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम्। जातिलक्षणं तु `जातेरस्त्रीविषया'दित्यत्र वक्ष्यते। बहुकृतेति। बहवः कृता यायेति विग्रहः। अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाह्मतम्। नेत्यर्थः। दन्तजातेति। दन्ता जाता यस्या इति विग्रहः। ऊरुभिन्नीतिवत् परनिपातः। तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः। विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः। अन्येति। दास्यादिरित्यर्थः।

तत्त्वबोधिनी

452 तेन बह्विति। अयं भावः– `बहोर्नञ्वदुत्तरपदभूम्नि'`नञ्सुभ्यां'`जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः'इति ह्रन्तोदात्तविधायकानि। तत्र `जातिपूर्वा'दित्युक्ते बह्वादिपूर्वकस्यांर्थाद्व्युदास इति। सुखादिपूर्वान्नेति। `सुखादिभ्यः कर्तृवेदनाया'मित्यत्र ये पठिताः सुखदुःखकृच्छ्रादयस्तेऽत्र गृह्रन्ते। सुखायाता। सुखं दुःखं वा आयातं प्राप्तमनयेति विग्रहः। `अस्वाङ्गपूर्वपदाद्वे'ति विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपद एवोदाहरणामाह–ऊरुभिन्नीति। भिन्नौ ऊरु यस्या इति बहुव्रीहौस भिन्नशब्दस्य `निष्ठे'ति पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परा निष्ठा वाच्ये'ति परनिपातः। बहुकृतेति। बहूनि कृतानि यया सा। जातान्तान्नेति। `वर्णादनुदात्ता'दितिवत्—–`बहुव्रीहेरुदात्ता'दित्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम्। `वा जाते'इति तु वैकल्पिक उदात्तो न तु नित्यमिति भावः। पाणिरग्निसाक्षिकं गृह्रते तस्यां वाच्यायां पाणिगृहीतशब्दान्ङीष्वक्तव्य इत्यर्थः। अन्येति। कौतुकादिना पाणिर्गृहीतो यस्या दास्यादेः सा `पाणिगृहीता'।

Satishji's सूत्र-सूचिः

TBD.