Table of Contents

<<4-1-43 —- 4-1-45>>

4-1-44 वा उतो गुणवचनात्

प्रथमावृत्तिः

TBD.

काशिका

गुणम् उक्तवान् गुणवचनः। गुणवचनात् प्रातिपदिकादुकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उतः इति किम्? शुचिरियं ब्राहमणी। गुणवचनातिति किम्? आखुः। वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्। वस्वी। खरुसंयोगोपधात् प्रतिषेधो वक्तव्यः। खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी। सत्त्वे निविशते ऽपैति पृथग् जातिषु दृश्यते। आधेयश्च अक्रियाजश्च सो ऽसत्त्वप्रकृतिर् गुणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1262 उदन्ताद् गुणवाचिनो वा ङीष् स्यात्. मृद्वी, मृदुः..

बालमनोरमा

495 वोतो गुणवचनात्। प्रातिपदिकादित्यनुवृत्तम्। वा उत इतिच्छेदः। उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः। तदाह–उदन्तादिति। वा ङीबिति। ङीषिति नात्रानुवर्तते। `गुणवचनान्ङीबाद्युदात्तार्थः' इति वार्तिकादिति भावः। मृद्वीति। मृदुशब्दान्ङीपि यण्। अत्र-`सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः' इति भाष्ये गुणलक्षणमुक्तम्। सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः। द्रव्यमात्रसमवेत इति यावत्। मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात्। अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह–अपैतीति। कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः। द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः। एवमपि क्रियायामतिव्याप्तिवारणाय आह–आधेयश्चाक्रियाजश्चेति। आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः। उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत्। गुणोनित्याऽनित्यभेदेन द्विविधो भवति। नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात्। क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः। एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च। ?त आह–असत्त्वप्रकृतिरिति। अद्रव्यस्वभाव इत्यर्थः। द्रव्यभिन्न इति यावत्। ?त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम्। `आधेयश्चाक्रियाजश्चे'त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम्। असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम्। तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम्। समवेतत्वाऽभावादभावनिरासः। अत्र `नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव' इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम्। `आकडारादेक संज्ञा' इति सूत्रभाष्ये तु `समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती'त्युक्तम्। तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम्। परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम्। तदप्युक्तलक्षणे निवेश्यम्। न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात्। एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात्। रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे `गुणवचनेभ्यो मतुपो लुगिष्टः' इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ `रूपो घटः' इत्यादिप्रयोगापत्तेः। प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ। शुचिरिति। शुक्लेत्यर्थः। `शुक्लशुभ्रशुचि\उfffदोतविशदश्येतपाण्डराः' इत्यमरः। नच शुचिधातोः `इगुपधात् कि'दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात्। आखुरिति। मूषिकेत्यर्थः। आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप्। `खरुसंयोगापधान्ने'ति वार्तिकम्। खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः। खरुशब्दात् संयोगोपधाञ्च `वोतो गुणवचनादि'ति ङीप् नेत्यर्थः। खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे–पतिंवरा कन्येति। पतिलाभोत्कण्ठावतीत्यर्थः। औत्कण्ठ\उfffद्लक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः। पाण्डुरिति। \उfffदोतेत्यर्थः। संयोगोपधत्वान्न ङीप्।

तत्त्वबोधिनी

446 गुणवचनात्। गुणो नाम नेहादेङ्रूपः, `उतः'इति विशेषणाद्वचनग्रहणाच्च, नापि विशेषणमात्रमिदम्, आखुद्र्रव्यमित्यादावतिप्रसङ्गादिति चेत्। अत्राहुः– `संज्ञाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः'। `चतुष्टयीशब्दानां प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेव निर्णयः' इति। भाष्ये तु `सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।'इति स्थितम्। सत्त्वं द्रव्यम्। सत्त्व एव निविशतो इति सावधारणं व्याख्येयम्। एतेनसत्ता व्यावर्त्त्यते। सा हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु। ननु द्रव्य एव द्रत्र्यत्वं वर्तत इति तत्राऽतिव्याप्तिरत आह—अपैतीति। अपगच्छतीत्यर्थः। अर्थात्सत्त्वादेव। यथा पीततायां जातायां फलादेर्नीलताऽपैति, नैवं द्रव्यत्वं द्रव्यादपैति। एवमपि गोत्वं गोषु वर्तते अ\उfffदाआदेश्चापैति तत्रातिव्याप्तिरत आह–पृथग्जातिषुदृश्यत इति। गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते। गुणस्तु दृश्यते। यथा अम्रे दृष्टा नीलता तृणादिष्वपि दृश्यते। एतेन पूर्वार्धेन सकलजातेव्र्यवच्छेदः। एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह– आधेयश्चाक्रियाजश्चेति। उत्पाद्योऽनुत्पाद्य इत्यर्थः। उत्पाद्यो–यथा घटादेः पाकजो रूपादिः। अक्रियाजोऽनुत्पाद्यः। स यथा आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्या द्वेविध्याऽभावाद्गुणत्वाऽभावाः। एवमपिल द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्रस्तपादादिषु दृश्यते, द्विविधं च भवति नित्याऽनित्यभेदेन, निरवयवस्याऽत्मपरमाण्वादेर्नित्यात्वादवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह–असत्त्वपर्कृतिरिति। अद्रव्यस्वभाव इत्यर्थः। पतिवरेति। एवं च पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयमिति भावः।

Satishji's सूत्र-सूचिः

TBD.