Table of Contents

<<4-1-44 —- 4-1-46>>

4-1-45 बह्वाऽदिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

बहु इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति। बह्वी, बहुः। बहु। पद्धति। अङ्कति। अञ्चति। अंहति। वंहति। शकटि। शक्तिः शस्त्रे। शारि। वारि। गति। अहि। कपि। मुनि। यष्टि। इतः प्राण्यङ्गात्। कृदिकारादक्तिनः। सर्वतो ऽक्तिन्नर्थादित्येके। चण्ड। अराल। कमल। कृपाण। विकट। विशाल। विशङ्कट। भरुज। ध्वज। चन्द्रभागान्नद्याम्। कल्याण। उदार। पुराण। अहन्। बहुशब्दो गुणवचन एव। तस्य इह पाठ उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1263 एभ्यो वा ङीष् स्यात्. बह्वी, बहुः. (कृदिकारादक्तिनः). रात्री, रात्रिः. (सर्वतोऽक्तिन्नर्थादित्येके). शकटी. शकटिः..

बालमनोरमा

496 बह्वादिभ्यश्च। गुणवचनत्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः। वस्तुतस्तु अनुपदोदाह्मताकडारसूत्रभाष्यरीत्या सङ्ख्याशब्दानां गुणवचनत्वाऽभावादप्राप्तस्य ङीषो विधानार्तं बहुग्रहणमित्याहुः। बह्वी बहुरिति। वैपुल्यवाची बहुशब्दोऽयम्। त्रित्वादिशमनियतसङ्ख्याविशेषवाचित्वे तु एकवचनानुपपत्तेः। वैपुल्यवाचित्वेऽपि `बहुगणवतुडति सङ्ख्या' इति सङ्ख्याशब्दत्वान्न गुणवचनत्वमिति न वैयथ्र्यमिति भावः। `कृदिकारादक्तिनः' इति बह्वाद्यन्तर्गणसूत्रम्। कृतो यैकारस्तदन्तात्प्रातिपदिकात् ङीष् वा स्यात्, न तु क्तिन्नान्तादित्यर्थः। रात्रिः रात्रीति। `राशदिभ्यां त्रिप्' इति राधातोरौणादि कस्त्रिप्। गुणवचनत्वाऽभावात्, उदन्तत्वाऽभावाच्चाऽप्राप्ते वचनम्। `सर्वतोऽन्नर्थादित्येके' इत्यपि बह्वाद्यन्तर्गणसूत्रमेव। कृदिकारान्तादृकृदिकारान्तादपि ङीष् वा स्यात्, नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः। शकटिः शकटीति। शकटिशब्दस्य अव्युत्पन्नप्रातिपदिकत्वात् कृदन्तत्वाऽभावात् `सर्वत' इति वचनम्। अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्यम्। अजननिरिति। `स्त्रियां क्तिन्नि'त्यधिकारे `आक्रोशे नञ्यनिः' इति नञि उपपदे जनेरनिप्रत्ययः। `अक्तिन' इत्यक्तौ अत्र निषेधो न स्यादतोऽक्तिन्नर्थादित्युक्तिरिति भावः। ननु हनधातोः स्त्रियां कर्मणि क्तिनि `अनुदात्तोपदेशे'त्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात्कथं पद्धतिशब्दान्ङीषित्यत आह–क्तिन्नन्तत्वादिति। गणे इति। बह्वादिगण इत्यर्थः। ननु पादाभ्यां हतिरिति विग्रहे `कर्तृकरणे कृता बहुल' शब्दस्य ग्रहणात्, भत्वाऽभावाच्च। `पादस्य पदाज्यातिगोपहतेषु' इत्यपि न संभवति, तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह–हिमकाषीति। हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः।

तत्त्वबोधिनी

447 बह्वादिभ्यश्च। बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धेऽप्युत्तरार्थं ग्रहणम्,–`नित्यं छन्दसी'त्युत्तरसूत्रेण बहुशब्दादपि छन्दसि नित्यं यथा स्यादिति। वस्तुतस्तु बहुशब्दो, `नित्यं छन्दसी'ति सूत्रं च व्यर्थमेव, सर्वविकल्पानां छन्दसि व्यवस्थितत्वात्। गुणसूत्रामाह–कृदिकारादिति। `सर्वतोऽक्तिन्नार्था' दित्यपि गुणसूत्रमेव। व्यवस्थितविभाषात्वादिह न,–सुगन्धिः। प्रियकतिर्वेश्या। अजननिरिति। `आक्रोशे नञ्यनिः'इति जनेरनिप्रत्ययः। इहाऽन्यान्यपि गणसूत्राणि सन्ति—शक्तिः शस्त्रे। शक्तिः शक्ती। शस्त्रे किम्?। शक्तिः सामथ्र्यम्। शक्तिः शस्त्रीति पाठे तु शब्दद्वयम्। शस्त्रीः शस्त्री। इतः प्राण्यङ्गात्। धमनिः। धमनी। चन्द्रभागान्नद्याम्। चन्द्रभागी। चन्द्रभागा। अहन्शब्दोऽत्र पठ\उfffद्ते, तत्सामथ्र्यात्तदन्तो बहुव्रीहिरुदाहार्यः, अनुपसर्जनाधिकारबाधश्च। दीर्घाह्यी प्रावृट्। पक्षे ङीम्ङीन्बिषेधाः। बहु पद्धति यष्टि विकट विशाल कल्याण पुराण चण्ड कृपाण अहन्। इत्यादि।

Satishji's सूत्र-सूचिः

TBD.