Table of Contents

<<4-1-42 —- 4-1-44>>

4-1-43 शोणात् प्राचाम्

प्रथमावृत्तिः

TBD.

काशिका

शोणशब्दात् प्राचाम् आचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा वडवा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

494 शोणात्प्राचाम्। `रोहितो लोहितो रक्तः शोणः कोकनदच्छविः' इत्यमरः। `वर्णानां तणतिनितान्ताना'मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः। `अन्यतो ङी'षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम्।

तत्त्वबोधिनी

445 शोणात्। `शोणः कोकनदच्छवि'रिति कोशाच्छोणशब्दस्य वर्णवाचित्वात् `वर्णानां तणे'त्याद्युदात्ततया `अन्यतो ङी'षिति सिद्धेऽपि प्राचामेव ङीष् नान्येषामिति नियमार्थमिदम्।

Satishji's सूत्र-सूचिः

TBD.