TBD.
वा इति वर्तते। वर्णवाचिनः प्रातिपदिकातनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एता, एनीं। श्येता, श्येनी। हरिता, हरिणी। सर्वे एते आद्युदात्ताः, वर्णानां तणतिनितान्तानाम् इति वचनात्। वर्णातिति किम्? प्रकृता। प्ररुता। गतिस्वरेणाद्युदात्तः। अनुदात्तातिति किम्? श्वेता। घृतादित्वादन्तोदात्तः। तोपधातिति किम्? अन्यतो ङीषं वक्ष्यति। अतः इत्येव, शितिर् ब्रह्मणी। पिशङ्गादुपसङ्ख्यानम्। पिशङ्गी। असितपलितयोः प्रतिषेधः। असिता। पलिता। छन्दसि क्नम् इत्येके। असिक्नी। पलिक्नी। भाषायाम् अपि इष्यते। गतो गणस्तूर्णमसिक्निकानाम्।
TBD.
1261 वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च. एनी, एता. रोहिणी, रोहिता..
489 वर्णादनु। वेति ङीबिति चानुवर्तते। अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः। तकारादकार उच्चारणार्थः। `वर्णा'दित्यस्य `स्वं रूपं शब्दस्ये'ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात्। किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः। वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः। `त' इति षष्ठी, तकारस्येत्यर्थः। `न' इत्यत्र नकारादकार उच्चारणार्थः। नकार इत्यर्थः। तदाह– वर्णवाचीत्यादिना। तदन्तादनुपसर्जनादिति। अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः। एनी एतेति। \उfffदोतेत्यर्थः। एतशब्दान्ङीप्, तकारस्य नकारश्च। ङीबभावे टाबेव। नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात्। एतशब्दः \उfffदोतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः। रोहिणी रोहितेति। रोहितशब्दो रक्तवर्णपर्यायः। ङीपि णत्वे-रोहिणीति। तदभावे टाप्। अनुदात्तान्तत्वं गमयितुमाह– वर्णानामिति। तान्तेत्यत्र तकारादकार उच्चारणार्थः। त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः। एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि। प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वे `अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः। ननु `अनुपसर्जना'दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह–त्र्येण्येति। त्रीणि एतानि \उfffदोतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः। तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम्। अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः। शलल्येति। शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः। गृह्रमिति। गृह्रन्ते संगृह्रन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बा\उfffदालायनादिप्रणीतकल्पसूत्रविशेष उच्यते। त्र्येण्येति णत्वनमार्षम्। यजुर्वेदे तु `त्रि एण्या शलल्या निवर्तयेते'ति पठितम्। तत्र त्रीणि एतानि \उfffदोतानि यस्या इति विग्रहः। यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः। ननु `वर्णानां तणति' इति \उfffदोतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह– घृतादीनाभिति। अत इत्येवेति। `अजाद्यतष्टा'वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः। शितिः स्त्रीति। `शिती धवलमेचक्तौ' इत्यमरः। पिशङ्गीति। `लघावन्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते। `अन्यतो ङी'षिति वक्ष्यमाणङीषोऽपवादः। स्वरे विशेषः।\र्\नसितेति। वार्तिकमेतत्। असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया च `वर्णादनुदात्ता'दिति प्राप्ते ङीब्नत्वे निषिध्येते। छन्दसि क्नमेके इति। इदमपि वार्तिकम्। असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः। असिक्नीति। असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपे `यस्येति चे'त्यकारलोपः। क्न् इति नकारान्त एवादेश इत्यन्ये। एवं पलिक्नीत्यपि। `पलितं जरसा शौक्ल्य'मित्यमरः। ननु `अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वा`ल्लघावन्ते' इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्च `वर्णादनुदात्ता'दिति ङीब्नत्वे स्यातामित्यत आह–अवदातशब्दस्त्विति। `अवदातः सिते पीते शुद्धे' इति कोशात् `दैप् शोधने' इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः। एतच्च `पुंयोगादाख्याया'मिति सूत्रे भाष्ये स्पष्टम्। `अवदातः सितो गौरः' इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः।
–
TBD.