Table of Contents

<<4-1-37 —- 4-1-39>>

4-1-38 मनोरौ वा

प्रथमावृत्तिः

TBD.

काशिका

ऐ उदात्तः इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मनायी। मनावी। मनुः। मनुशब्दः आद्युदात्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

488 मनोरौ वा। ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते। तदाह–मनुशब्दस्येति। उदात्तैकारश्च वेति। औकारः, उदात्त एकारश्च वा स्यादित्यर्थः। `उदात्तैकार' इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम्। चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते। तदाह–ताभ्यामिति। एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः। ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते, `संनियोगशिष्टानां सह वा प्रवृत्तिः' सह वा निवृत्तिः' इति परिभाषावशादिति भावः। इयं तु परिभाषा `पूतक्रतोरै चे'ति सूत्रभाष्ये स्थिता। मनायीति। `यद्वै किं च मनुरवद'दित्यादौ मनुशब्दः `ञ्नित्यादिनित्यम्' इत्याद्युदात्तः। `धान्ये नित्' इत्यतो निदित्यनुवृत्तौ `शृ?स्वृस्निही'त्यादिना मनेरुप्रत्ययविधेः। ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः। तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः। मनावीति। अत्रौकारोऽनुदात्त एव। मनुरिति। ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.