Table of Contents

<<4-1-36 —- 4-1-38>>

4-1-37 वृषाकप्यग्निकुसितकुसिदानाम् उदात्तः

प्रथमावृत्तिः

TBD.

काशिका

वृषाकप्यादीनाम् उदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप् च प्रत्ययः। वृषाकपिशब्दो मद्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृषाकपायी। अग्नायी। कुसितायी। कुसिदायी। पुंयोगे इत्येव, वृषाकपिः स्त्री।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

487 वृषाकपायीति। ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः, `अनुदात्तं पदमेकवर्ज'मित्यवशिष्टानामचामनुदात्तत्वम्। उदात्त इति किम् ?। `लघावन्ते द्वयोश्च वह्वषो गुरुः' इति वृषाकपिशब्दो मध्योदात्तः, `नाहमिन्द्राणि रारण सख्युर्वृषाकपेः' इति यथा। अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः। ततश्च षकारादाकारस्य उदात्तत्वे `अनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः। तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात्। ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात्। अतोऽत्र उदात्तत्वविधिः। ?ग्नायीति। `अग्निर्मूर्धा' इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति। अतस्तदादेशाऽऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात्। कुसितायी कुसिदायीति। कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्?स्वरेणान्तोदात्ते। ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम्। अत एवाह–न तु दीर्घमध्य इति। दीर्घमध्यत्वे हि `लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाह्मतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः।

तत्त्वबोधिनी

440 उदात्तैकार इति। `शृ?स्वृस्निहीत्यादिना मनेरुप्रत्ययविधौ `धान्ये नि 'दित्यधिकारान्मनुशब्द आद्युदात्तः। समासनिर्देशेनैतद्दर्शयति–उदात्त इत्यनुवर्तमानं संबन्धानुवृत्तेरैकारणेव संबध्यते त्वैकारेणापीति। ततश्चैकारौकारावृदात्तौ स्त इति प्राचोक्तं वृत्तिपदमञ्जर्यानामिति। एथः। शोणः। पृश्निः। पृषत्। इति क्रमेणोदाहरणानि। आद्युदात्त इति। `अनुदात्तं पदमेकवर्ज'मिति शेषनिघातेनाऽनुदात्तान्त एत शब्द इति भावः। त्र्येण्येति। अत्र एतशब्दस्योपसर्जनत्वामिति भावः। `पूर्वपदात्संज्ञाया'मिति णत्वम्। गृह्रमिति। `गृहू ग्रहणे'`ऋदुपधाच्चाऽक्लृपिचृतेः' इति क्यप्। त्रीण्येतानि यस्या इति। ननु `चित्रं किर्मिरकल्माषशबलैताश्च कर्वुरे'इति चित्रपर्याय एतशब्दः। तथा च शकल्यां चित्रत्रयाऽभावादर्थाऽस,ङ्गतिरित्याशङ्क्या केचिदिह व्याचक्षते–एतशब्दोऽत्र एतावयवपर इति नास्त्यत्रार्थाऽसङ्गतिः। न चैवमपि गुणविषयेनपुंसकपर्योगो न सङ्गच्छते `गुणे शुल्कादयः पुंसि'इत्युक्तेरिति वाच्यम्, एतानि–एतावयवाधिकरणानीति ब्याख्यया गुणिलिङ्गपरत्वादेतशब्दस्य नपुंसकमप्युपपद्यत इति। मध्योदात्तत्वात् `अन्यको ङी'षिति ङीषि प्राप्ते ङीबुपसङ्ख्यायते। स्वरे विशेषः। `वर्णादनुदत्ता'दिति नकारे प्राप्ते तं बाधित्वा तकारस्थाने क्नमादेशं तत्संनियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः। अत्र `छन्दस्येके'इत्यन्वयाद्भाषायां न्को भवत्येव। छन्दस्येवैके इच्छन्त्यन्ये तु भाषायामपीत्यर्थपर्यवसानात्। अन्यथा एकग्रहणं भाष्यकारो न कुर्यात्। न हि छन्दसि `पलिन्किरिद्युवतयः'इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। एवं च `गतो गणस्तूर्णमसिक्निकाना'मिति प्रयोगो नाऽनुपन्नः। विशुद्धवाचीति। `दैप् शोधने'इत्युक्तेः। अमरेण तु विशुद्धत्वसाधम्र्यात् `अवदातः सितो गौरः'इत्युक्तमिति भावः।

Satishji's सूत्र-सूचिः

TBD.