TBD.
पूतक्रतुशब्दस्य स्त्रियाम् ऐकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरने द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति।
TBD.
–
486 पूतक्रतोरै च। `ऐ' इति लुप्तप्रथमाकम्। पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः।\र्\नियं त्रिसूत्रीति। वार्तिकमिदम्। पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः। पूतक्रतायीति। पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः। पुंयोग इत्यस्य प्रयोजनमाह–ययेति। वृषाकप्यग्नि। `ऐ चे'त्यनुवर्तते। तदाह–एषामिति।
439 पूतक्रतोरै च। ऐकार आदेशो ननु प्रत्ययः, उत्तरसूत्रे उदात्तग्रहणात्। नत्विति। अन्यथा `लाघवन्ते इति मध्योदात्तो वृषाकपिशब्द उदात्तत्वं प्रयोजयति, अग्न्यादिषु त्रिषु `स्थानेऽन्तरतमः'इत्येव सिद्ध'मिति वृत्त्यादिग्रन्था विरुध्येरन्निति भावः।
TBD.