Table of Contents

<<4-1-34 —- 4-1-36>>

4-1-35 नित्यं सपत्न्यादिषु

प्रथमावृत्तिः

TBD.

काशिका

सप्त्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप् तु लभ्यते एव। पूर्वेण विकल्पे प्राप्ते वचनम्। नित्यग्रहणं वस्पष्टार्थम्। समानः पतिरस्याः सप्त्नी। एकप्त्नी। समानादिष्विति वक्तव्ये समानस्य सभावार्थं वचनम्। समान। एक। वीर। पिण्ड। भ्रातृ। पुत्र। दासाच् छन्दसि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

485 नित्यं सपत्न्यादिषु। विषयसप्तम्येषा। सपत्न्यादिविषये तत्सिद्ध्यर्थं नित्यं नत्वमित्यर्थः। पूर्वविकल्पेति। `विभाषा सपूर्वस्ये'ति विकल्पस्यापवाद इत्यर्थः। आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम्। ननु समानः पतिर्यस्याः सा सपत्नीति वक्षयति। तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः। एवं च `वोपसर्जनस्ये'ति वैकल्पिकः सभाव इत्यत आह–समानस्येति। इह गणे समान,एक, वीर, भ्रातृ, पुत्र इति समानादयः पठिताः। अतः समानशब्देनैन बहुव्रीहिकुचितः। तस्य च निपातनादेव नित्यं सभाव इति भावः। समानः पतिरिति। अत्र समानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धनभर्तृशब्दपर्यायः। वीरपत्नीति। वीरः पतिर्यस्या इति विग्रहः। सपत्न्यादित्वान्नत्वम्।

तत्त्वबोधिनी

438 नित्यं सपत्न्यादिषु। आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम्। निपात्यत इत। इह गणे समान एक वीर भ्रातृ पुत्रेति समानादय एव पठ\उfffद्न्ते, ततश्च `समानादिषु'इति वक्तव्ये `सपत्न्यादि'ष्वित्युक्तिः सभावनिपातनार्थेति भावः। सपत्न्यादिषु बहुव्रीहिराश्रीयत इत्याशयेनाह—समानः पतिर्यस्याः सेति।

Satishji's सूत्र-सूचिः

TBD.