Table of Contents

<<4-1-28 —- 4-1-30>>

4-1-29 नित्यं संज्ञाछन्दसोः

प्रथमावृत्तिः

TBD.

काशिका

अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्य अपवादः। सुराज्ञी, अतिराज्ञी नामः ग्राम। छन्दसि गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एकमूर्ध्नी। समानमूर्ध्नी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

434 नित्यं सञ्ज्ञाछन्दसोः। `अन उपधालोपिनः'इति विकल्पस्याऽपवादः। आरम्भसामथ्र्यात्सिद्धेऽपि नित्यत्वे नित्यग्रहणमुत्तरत्र विकल्पाननुवृत्तितसूचनाय कृतमित्याहुः। शतमूर्न्धीति। इह `पञ्चदाम्नि'ति क्वचित्पाठः, स चाऽयुक्तः `दामहायनान्ताच्चे'त्यनेनैव सिद्धत्वात्।

Satishji's सूत्र-सूचिः

TBD.