Table of Contents

<<4-1-26 —- 4-1-28>>

4-1-27 दामहायनानाच् च

प्रथमावृत्तिः

TBD.

काशिका

ऊधसः इति निवृ\उ0304त्तम्। सङ्ख्याग्रहणम् अनुवर्तते, न अव्ययग्रहणम्। सङ्ख्यादेः बहुव्रीहेः दामशब्दान्तात् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्ताट् टापि प्राप्ते। द्विहायनी। त्रिहायणी। चतुर्हायणी। हायनो वयसि स्मृतः। तेन इह न भवति, द्विहायना शाला। त्रिहायना। चतुर्हायना। णत्वम् अपि त्रिचतुर्भ्याम् हायनस्य इति वयस्य इव स्मर्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

480 दामहायनान्ताच्च। `सङ्ख्यादेः' `ङी'विति चानुवर्तते। तदाह–सङ्ख्यादेरिति। अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः। बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम्। दामान्ते इति द्विदामन्शब्दे दामान्ते `डाबुभाभ्या'मिति डापि `अन उपधालोपिनः' इति ङीपि, `अनो बहुव्रीहे'रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्ते `दामहायनान्ताच्चे'ति वचनमित्यर्थः। द्विदाम्नीति। द्वे दामनी यस्या इति विग्रहः। ङीपि `अल्लोपोऽनः' इति भावः। नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति। उद्दामेति। उद्दामेति। उत्क्रान्तं दाम यस्या इति विग्रहः। डाब्विषेधावपीति। अपिना `अन उपधे'ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात्। अथ हायनान्तस्य उदाहरति–द्विहायनी बालेति। द्वौ हायनौ यस्या इति विग्रहः।\र्\नथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह– त्रिचतुभ्र्यामिति। नन्वेवमपि `द्विहायना शाले'त्यत्रापि ङीप् स्यात्, `त्रिहायना शाले'त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह–वयोवाचकस्येति। इष्यते इति। `भाष्यकृते'ति शेषः।

तत्त्वबोधिनी

433 दाम। बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। सङ्ख्यादेरिति। समासनिर्देशेऽपि स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः। अननुवृत्तेरिति। भाष्यकृताऽननुवर्ततत्वादिति भावः। एवं चोद्दामेत्यत्र `दामहायनान्ताच्चे'त्यस्याऽप्रवृत्त्या पूर्वोक्तेषु डाप्ङीब्नेषेधेषु प्राप्तेषु बहुराज्ञीवद्रूपत्रयं भवत्यतो व्याचष्टे—डान्बिषेधावपीति।

Satishji's सूत्र-सूचिः

TBD.