Table of Contents

<<4-1-176 —- 4-1-178>>

4-1-177 अतश् च

प्रथमावृत्तिः

TBD.

काशिका

स्त्रियाम् इत्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियाम् अभिधेयायाम् लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या। सौवीर्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1178 अतश्च। तद्राजस्याकारस्येति। `अत' इति तद्राजविशेषणम्। तद्राजात्मकस्य अकारस्येत्यर्थः। शूरसेनीति। अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष्। `न लुमते'ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात्। एवं मद्री।

तत्त्वबोधिनी

974 अतश्च। इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः। विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्य `स्त्रियामवन्ती'ति सूत्रस्य वैयथ्र्यापत्तेः। न चेष्ट कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे।

Satishji's सूत्र-सूचिः

TBD.