Table of Contents

<<4-1-175 —- 4-1-177>>

4-1-176 स्त्रियाम् अवन्तिकुन्तिकुरुभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्तिर्याम् अभिधेयायां लुग् भवति। अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य। अवन्ती। क्न्ती। कुरूः। स्त्रियाम् इति किम्? आवन्त्यः। कौन्त्यः। कौरव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1177 स्त्रियामवन्ति। अवन्ती कुन्तीति। अवन्तेः कुन्तेश्चापत्यं स्त्री राज्ञी वेति विग्रहः। `वृद्धेत्कोसले ति ञ्यङोऽनेन लुकि `इतो मनुष्यजाते'रिति ङीष्। कुरूरिति। `कुरुनादिभ्यः' इति ण्यस्य लुक्।

तत्त्वबोधिनी

973 अवन्ती। कुन्तीति। `वृद्धे'दिति ञ्यङो लुकि `इतो मनुष्यजाते'रिति ङी,?। कुरुरिति। ण्यस्य लुक् `ऊङुतः'इत्यूङ्।

Satishji's सूत्र-सूचिः

TBD.