Table of Contents

<<4-1-168 —- 4-1-170>>

4-1-169 साल्वेयगान्धारिभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

साल्वेयगान्धारिशब्दाभ्याम् अपत्ये अञ् प्रत्ययो भवति। जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्याम् अञपवादे वृद्धादिति ञ्यङि प्राते पुनरञ् विधीयते। साल्वेयः। गान्धारः। तस्य राजनि इत्येव, साल्वेयो राजा। गान्धारो राजा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1169 साल्वेय। ननु साल्वेयगान्धारिशब्दावव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ, ताभ्यां जनपदशब्दादिञि सिद्धे किमर्थमिदमित्यत आह–ञ्यङोऽपवाद इति।

तत्त्वबोधिनी

967 बृद्धेत्। तपरकरणं किम्?। कौमारः। कुमारीशब्दो हि जनपदक्षत्रियवचनः।

Satishji's सूत्र-सूचिः

TBD.