Table of Contents

<<4-1-163 —- 4-1-165>>

4-1-164 भ्रातरि च ज्यायसि

प्रथमावृत्तिः

TBD.

काशिका

भ्रतरि ज्ययसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थो ऽयम् आरम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यते। भ्राता तु न वंश्यः। अकारणत्वात्। गार्ग्ये जीवति, गार्ग्यायणो अस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1074 भ्रातरि च ज्यायसि। जीवतीत्यनुवर्तते। तदाह–ज्येष्ठे भ्रातरि जीवति कनीयानिति। अनुज इत्यर्थः। `पौत्रप्रभृती'त्यनुवृत्तं षष्ठ\उfffदाविपरिणम्यते। अपत्यमित्यधिकृतम्। पौत्रादेरपत्यमित्यर्थः। फलितमाह–चतुर्थादिरिति। मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.