Table of Contents

<<4-1-164 —- 4-1-166>>

4-1-165 वा अन्यस्मिन् सपिण्डे स्थविरतरे जिवति

प्रथमावृत्तिः

TBD.

काशिका

सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते। येषाम् उभयत्र दशाहानि कुलस्यन्नं न भुज्यते इत्येवम् आदिकायां क्रियायाम् अनधिकारः। भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञम् वा भवति। प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञिनः। तरब्निर्देश उभयोत्कर्षार्थः। स्थानेन वयसा च उत्कृष्टे यथा स्यात् पितृव्ये पितामहे भ्रातरि वयसाधिके जिवति। गर्गस्य अपत्यं गार्ग्यायणः गार्ग्यो वा। वात्स्ययनः वात्स्यो वा। दक्षायणः दाक्षिर्वा। स्थविरतरे इति किम्? स्थानवयोनयूने गार्ग्य एव भवति। जीवति इति किम्? मृते मृतो वा गार्ग्य एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1075 वाऽन्यस्मिन्। शेषपूरणेन सूत्रं व्याचष्टे–पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति। सपिण्डास्तु-स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः। एवं मातृसंषेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम्। स्थविरतरः–अतिवृद्धः। जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति। अत्रत्यं तु जीवतिपदं तिङन्तम् अपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति। ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम्। एकमिति। अत्रत्यमित्यर्थः। द्वितीयमिति। अनुवर्तमानमित्यर्थः। उभयोरिति। हेतुत्वसंबन्धे षष्ठी। उभयहेतुकोत्कर्षवाचकस्तरवित्यर्थः। तदेव विवृणोति-स्थानेन वयसा चेति। स्थानतः उत्कृष्टः-पितृव्यः, तस्य पितृस्थानीयत्वात्। वयसा उत्कृष्टो-मातामहः। भार्तरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित्। पितृव्यपुत्र इत्यन्ये। जीवतीति किमिति। जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः। मृते मृतो वा गाग्र्य एवेति। मृते सपिण्डे चतुर्थौ गाग्र्य एव, मृतश्च चतुर्थो गाग्र्य एवेत्यर्थः। वृद्धसंज्ञा प्राचामिति। गोत्रमेव `वृद्ध'मिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः। तथा च वार्तिकस्य फलितमर्थमाह–गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति। उदाहरति–तत्रभवान्गाग्र्यायण इति। `तत्रभवा'निति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा। ता गोत्रप्रभृतिस्तृतीयोऽपि मन्यते।\र्\नत्र युवसंज्ञाविधिसामथ्र्यात्स्वार्थे युवप्रत्ययो बोध्यः। गाग्र्यो जाल्म इति। वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम्।

तत्त्वबोधिनी

900 युवसंज्ञमेवेति। तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोर्न समावेश इति भावः। नन्वस्तु संज्ञाद्वयस्यट समावेशः, को दोष इति चेत्। मैवम्। शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात्। तथा हि शलङ्कोरपत्यं शालङ्किः। पैलादिषु पाठादिञ्शलङ्कादेशौ। शालङ्केरपत्यम्। शालङ्केर्युवापत्यं `यञिञिश्चे'ति फक्। तस्य `पैलादिभ्यश्चे'ति लुक्, ततः शालङ्केर्यूनश्छत्रा इत्यर्थविवक्षायाम् `इञस्चे'त्यणि `शालङ्का'इति भवति। तथा पीलाया अपत्यं गोत्रापत्यं वा—`पीलाया वा'इत्यणि –पैलः। तस्या पत्यं युवा, `अमो व्द्यचः'इति फिञ्। तस्य `पैलादिभ्यश्चे'ति लुक्। ततः पैलस्य यूनश्छात्राः पैलीया इति भवति। तत्र गोत्रयूनोः समावेशे तु `गोत्रे लुगची'ति फक्?फिञारलुक् प्रसज्येत। न च परत्वाद्यूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यं, ततोऽपि परत्वात् `फक्फिञोरन्यतरस्या'मिति विकल्पापत्तेः। न च सिद्धान्तेऽपि विकल्पः शङ्क्यः, `फक्फिञो'रित्ययं हि यूनि लुक एवापवादो न तु `पैलादिभ्यश्चे'त्यस्य, `अनन्तरस्ये'ति न्यायात्। यद्यपि यूनि लुगवादोऽपि `फक्फिञो'रिति विकल्पः परत्वात् `पेलादिभ्यश्चे'ति लुकमपि बाधेतेति वक्तुं शक्यन्तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात् `प्लादिभ्यश्चे'ति नित्य एव लुगित्याहुः। भ्रातरि च। अवंश्यार्थोऽमारम्भः। भ्राता तु न वंश्यः, `उत्पादकप्रबन्धो वंशः'इत्यभ्युपगमात्। `अपत्यं पौत्रप्रभृती'त्यनुवर्त्त्य `पौत्रप्रभृते'रिति षष्ठ\उfffदा विपरिणम्य व्याख्यानात्फलिकमाह—चतुर्थादिरिति। अत्रायमर्थः—गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति। वान्यस्मिन्। इहत्यं जीवतिपदं तिङन्तं, न तु सप्तम्यन्तमिति व्याचष्टे–जीवदेवेति। यो जीवति स युवसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गाग्र्य एव भवति, न तु गाग्र्यायण इति भावः। एकमिति। इहत्यमित्यर्थः द्वितीयमिति। अनुवर्तमानं सप्तम्यन्तमित्यर्थः। यदुक्तमुभयोरिति, तदेव विवृणोति– स्थानेनवयसा चेति। मतामहेभ्रातरि वेति। संनिहितत्वात् `भ्रातरी'त्यस्य `मातामहभ्रातरी'त्येवार्थ इत्येके। `पितृव्यपुत्रे'इत्यन्ये। वृत्तौ तु — `पितृव्ये पितामहभ्रातरि वे'ति पाठः। जीवतीति किमिति। जीवतिद्वयं किमर्थमिति प्रश्नः। अतएव `मृते मतो वे'त्यत्तुरं सङ्गच्छते। अन्यस्मिन् किम्?। भ्रातरि जीवति जीवतो विकल्पो मा भूत्। पूर्वसूत्रं तु भ्रातरि जीवति भृतस्य कनीयसो युवसंज्ञार्थमिति सावकशम्। वार्कतिकमिदम्। तथा `यूनश्चे'त्यग्रिममपि।

Satishji's सूत्र-सूचिः

TBD.