Table of Contents

<<4-1-152 —- 4-1-154>>

4-1-153 उदीचाम् इञ्

प्रथमावृत्तिः

TBD.

काशिका

ण्ये प्राप्ते इञपरो विधीयते। सेनान्तलक्षणकारिभ्यो ऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेन अणा अयम् इञ् बाध्यते, न तु ण्यः। तक्ष्णो ऽपत्यं ताक्ष्णः, ताक्षण्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1160 उदीचामिञ्। सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः। परत्वात्फिञेवेति। `उदीचां वृद्धा'दित्यनेनेति शेषः। उपसङ्ख्यानमिति। `उदीचांमते'इति शेषः। ताक्ष्ण इति। अणि प्रकृतिभावान्न टिलोपः। `अल्लोपस्तु `षपूर्वह'न्निति वचनाद्भवति। पक्षे ताक्षण्य इति। प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः। `ये चाऽभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.