TBD.
अपत्यं पौत्रप्रभृति गोत्रं गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशो ऽपत्यस्य कुत्सा। गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः। ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः। गोत्राद्यूनि इति यूनि प्रत्ययो भवति। गोत्रम् इति किम्? कारिकेयो जाल्मः। स्त्रियाः इति किम्? औपगविर्जाल्मः। कुत्सने इति किम्? गार्गेयो माणवकः।
TBD.
–
1154 गोत्रस्त्रियाः। `ण' इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते। तदाह–गोत्रं यास्त्रीत्यादिना। सामथ्र्यादिति। `एको गोत्रे' इति नियमादिति भावः। गाग्र्या अपत्यमिति। गर्गस्य गोत्रापत्यं स्त्री गार्गी। `गर्गादिभ्यः' इति यञ्। `यञश्चे'ति ङीप्। `यस्येति चे'त्यकारलोपः। `हलस्तद्धितस्ये'ति यकारलोपः।छ गाग्र्या अपत्यं युवेति विग्रहः। पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम्। यद्यपि णप्रत्यये ठक इकादेशे च `यस्येति'चे'ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह- -पुंवद्भ्वादिति। `भस्याढे'इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम्। तच्च समूहाधिकारे `भिक्षादिभ्योऽ'णित्यत्र स्फुटीभविष्यति। स्त्रियाः किम् ?। औपगवस्यापत्यं युवा औपगविः। प्रकरणादिगम्या कुत्सा। गोत्रेति किं ?। णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम्।
956 गोत्रस्त्रियाः। णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः'इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम्। समाथ्र्याद्यूनीति। `गोत्रादपरो गोत्रप्रत्ययो ने'त्युक्तत्वादिति भावः। गाग्र्या अपत्यमिति। पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा। गोत्रेति किम्?। कारिकेयो जाल्मः। स्त्रियाः किम्?। औपगवस्यापत्यम् औपगविर्जाल्मः। कुत्सने किं?। गार्गेयो माणवकः।
TBD.