Table of Contents

<<4-1-145 —- 4-1-147>>

4-1-146 रेवत्यादिभ्यष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

रेवती इत्येवम् आदिभ्यो ऽपत्ये ठक् प्रत्ययो भवति। यथा योगं ढगादीनाम् अपवादः। रैवतिकः। आश्वपालिकः। रेवती। अश्वपाली। मणीपाली। द्वारपाली। वृकवञ्चिन्। वृकग्राह। कर्णग्राह। दण्डग्राह। कुक्कुटाक्ष।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1029

बालमनोरमा

1153 रेवत्यादिभ्यष्ठक्। `अपत्ये' इति शेषः। ढगाद्यपवादः।

तत्त्वबोधिनी

955 रेवत्या।रेवती, अ\उfffदापाली, मणिपाली, द्वारपाली—इत्यादि। ठस्येकः। `अङ्गस्ये'त्यनुवर्तनादाहर—अङ्गात्परस्येति। `अङ्गा'दिति ठकारविशेषणादठचष्ठकारस्य न भवति। कर्मठः।

Satishji's सूत्र-सूचिः

TBD.