Table of Contents

<<4-1-144 —- 4-1-146>>

4-1-145 व्यन् सपत्ने

प्रथमावृत्तिः

TBD.

काशिका

सपत्नशब्दः शत्रुपर्यायः शब्दान्तरव्युत्पन्नम् एव। सप्त्नीशब्दादपरे ऽकारम् इव अर्थे निपातयन्ति। सप्त्नीव सपत्नः। भ्रातृशब्दाद् व्यन् प्रत्ययो भवति समुदायेन च इदम् इत्रः सपत्न उच्यते। अपत्यार्थो ऽत्र न अस्त्येव। पाप्मना भ्रातृव्येण। भ्रातृव्यः कण्टकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1152 व्यन्सपत्ने। अपत्ये इति। प्रत्ययेनाऽपत्यमुच्यते। भ्रातृशब्दार्थस्तु न विवक्षितः। तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुरिति भाष्ये स्पष्टम्। ननु `पाप्मना भ्रातृव्येणे'ति कथं, पाप्मनोऽपत्यत्वाऽभावादित्यत आह– उपचारादिति। हिंसकत्वगुणयोगाल्लाक्षणिक इत्यर्थः।

तत्त्वबोधिनी

954 व्यन्स्यादिति। भ्रातुरपत्यं यदि शत्रुदस्तदा भ्रातृशब्दाव्द्यन्नेव स्यान्न तु व्याच्छौ इत्यर्थः। समुदायेनेति। तद्धटितप्रत्यये शत्रुरूपेऽपत्ये वाच्य इत्यर्थः। यत्तु वृत्तिकृतोक्तम्–`अपत्यार्थोऽत्र नास्त्येवे'ति, तदुपेक्ष्यं, भाष्यविरोधादिति मनसि निधायाह–पाप्मनेति। श्रुतिहतभ्रातृव्यशब्दस्य गतिं वदति– उपचारादिति। `अस्त्रि पङ्कं पुमान्पाप्मा पापं किल्विषकल्मष 'मित्यमरः। न हि पापं भ्रातुरपत्यं भवतीतत्यतो भाक्त एवायं प्रयोग इति भावः।

Satishji's सूत्र-सूचिः

TBD.