Table of Contents

<<4-1-139 —- 4-1-141>>

4-1-140 अपूर्वपदादन्यत्रस्यां यङ्ढकञौ

प्रथमावृत्तिः

TBD.

काशिका

कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससम्बन्धिपूर्वपदस्य अभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दातन्यतरस्यां यत् ढकञित्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते क्यो ऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम्? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1147 अपूर्वपदादन्यतरस्याम्। कुलादित्येवेति। पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः। पक्षे ख इति। यड्ढकञोरभावपक्षे इत्यर्थः। बहुकुल्य इति `विभाषा सुपः' इति बहुच्प्रत्ययो न पदम्। अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः।

तत्त्वबोधिनी

953 बहुकुल्य इति। `विभाषा सुपः' इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्ये'ति भावः।

Satishji's सूत्र-सूचिः

TBD.