TBD.
डाप् प्रत्ययो भवति उभाभ्यां मन्नन्तात् प्रातिपदिकातनन्ताच् च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति। पामानः। सीमानः। बहुव्रीहौ बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति। बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ, वनो र च 4-1-7 इत्यस्य अपि विकओपो यथा यात्। बहुधीवा, बहुधीवरी। बहुपीवा, बहुपीवरी।
TBD.
–
455 डाबुभाभ्याम्। `उभाभ्या'मित्येतद्व्याचष्टे–सूत्रद्वयोपात्ताभ्यामिति। `मन' इति `अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः। नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम्। नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात्। एवञ्च ङीप्निषेधडापोर्वचनसामथ्र्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित्। भाष्ये तु `अन्यतरस्या'मिति योगविभागमाश्रित्य `बहुव्रूहौ' इति वार्तिकं प्रत्याख्यातम्। सीमेति। सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः। डाबभावपक्षेऽपि `मनः' इति ङीब्निषेधे सौ `सीमे'त्येव राजवद्रूपम्। तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति। मन्नन्तविषये उदाहरणान्तरमाह-दामेति। दाधातोरौणादिको मनिन्। `हिरण्मयं दाम दक्षिणा' इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति। दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः, `निषिद्धलिङ्गं शेषार्थ'मिति परिभाषितत्वात्। अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति। बहवो यज्वानो यस्या इति विग्रहः। डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः। ङीब्निषेधे सौ एतदेव राजवद्रूपम्। डापः फलमाह-बहुयज्वे बहुयज्वानाविति। शसि-बहुयज्वनः। अत्राऽल्लोपस्तु न भवति, `न संयोगाद्वमन्ता'दिति निषेधात्। अत एव `अन उपदालोपिनः' इत्यस्य नायं विषयः।
410 डाबुभाभ्याम्। उभाभ्याङ्गरहणं व्यर्थं, मन्नन्ताऽन्नन्तयोरनुवृत्त्यैव तत्फलसिद्धेरित्येके। उभोरप्यनुवृत्तिसृचनाय त्द्ग्रहणमावश्यकम्, अन्यथा संनिहितस्यान्नन्तस्यैवानुवृत्तिरिति शङ्का स्यादित्यन्ये। ननु निषेधापोर्वचनसामथ्र्यात्पर्यायः सिध्यति तत्किमन्यतरस्यङ्गरहणेन?। सत्यम्। `अन्यतरस्या'मिति योगो विभज्यते, तत्र `मनः'इति निवृत्तम्। अनो बहुव्रीहेर्डाब्वा स्यात्। पूर्वेणैव डैपि सिद्धे पुनर्विधानमिदम् `ऋन्नेभ्यः–'इति ङीपा स ह विकल्पार्थम्। `अन उपधालोपिनः–'इति सूत्रं तु नियमार्थम्। `अनो योऽसौ विकल्पः स उपधालोपिन एवे'ति। एवं ट `बहुधीवर्य्यौ'`बहुधीवानौ' `बहुधीवे'त्युक्तरुपत्रयं सिद्धमिति `बहुव्रीहौ वे'त्येतन्नाऽपूर्वं वचनमिति बोध्यम्। `उपधालोपिन एवे'ति नियमात्तु `सुपर्वा'चारुपर्वे`त्यादावनुधालोपिनो ङीप्न भवति, किंतु डाप्प्रतिषेधावेव भवतः। अयं च योगविभागोऽबश्यमभ्युपेयः, अन्यथा `बहिधावरी'त्यत्र प्रकरणान्तरस्थेन `अन उपधालोपिन'इति वक्ष्यमाणेन पाक्षिके ङीपि कृतेऽपि `ऋन्नेभ्यः'इति प्राप्तं ङीपमनूद्य तत्संनियोगेन हि विधायमानो यो `वनोर चे'ति ,#ऊत्रमेव ङीब्राऔ विधत्तामिति चेन्, उभयविधौ गौरवात्। किञ्चोभयविधायकत्वेऽपि `अनो बहुव्रीहे'रित्यनेन ङीपि निषिद्धे रोऽपि दुर्लभः, संनियोगशिष्टत्वात्। भाष्ये तु `अनो बहुव्रीहे'रित्यस्याऽनन्तरम् `उपधालोपिनो वे'ति सूत्रमस्तु, `अन उपधे'त्यादि प्रदेशान्तरस्थं सूत्रं, ङाप्सूत्रेऽन्यतरस्याङ्ग्रहणं च मास्त्वित्युक्तम्।
TBD.