Table of Contents

<<4-1-114 —- 4-1-116>>

4-1-115 मातुरुत् सङ्ख्यासंभद्रपूर्वायाः

प्रथमावृत्तिः

TBD.

काशिका

मतृशब्दात् सङ्ख्यापूर्वात् संपूर्वात् भद्रपूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश्च अन्तादेशः। द्वयोर् मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेण एव सिद्धः। स्त्रीलिङ्गनिर्देशो ऽर्थापेक्षः, तेन धान्यमातुर् ग्रहणं न भवति। सङ्ख्यासंभद्रपूर्वायाः इति किम्? सौमात्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1022 संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च. द्वैमातुरः. षाण्मातुरः. सांमातुरः. भाद्रमातुरः..

बालमनोरमा

1102 मातुरुत्। द्वैमातुर इति। द्वयोर्मात्रोरपत्यमिति विग्रहः। `तद्धितार्थ' इति समासः। अण्। ऋकारस्योकारः। रपरत्वम्। एवं षाण्मातुरः सांमातुर इति। समीचीना माता संमाता, संमातुरपत्यं सांमातुरः। अण् उत्। रपरत्वं। भाद्रमातुर इति। भद्रा चासौ माता चेति विग्रहः। अणादि पूर्ववत्। ननु `तस्यापत्य'मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह–आदेशार्थं वचनमिति। उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः। ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात्। तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह–स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति। मातृगतं स्त्रीत्वं शब्दे आरोप्य `सङ्ख्यासम्भद्रपूर्वाया' इति निर्दिश्यते। अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः। तेन धान्यमातुर्नेति। अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः। सुमातुरपत्यमित्यर्थे `तस्यापत्य'मित्यण्। सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः। ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह–शुभ्रादित्वादिति। `शुब्राआदिभ्यश्चे'ति ढकि रूपमित्यर्थः।

तत्त्वबोधिनी

921 द्रैमातुर इति। `तद्धितार्थ'इत्यादिना समासः। अत्र `द्वयोर्मात्रोरपत्य'मिति विग्रहो, न तु `द्विमात्रोरपत्य'मिति। `दिक्संख्ये संज्ञाया'मिति नियमेनाऽसंज्ञायां समासाऽसंभवात्। धान्यमातुर्नेति। `अभिव्यक्तपदार्थाः'इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः। `अभिव्यक्ते'त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये।

Satishji's सूत्र-सूचिः

TBD.