Table of Contents

<<4-1-102 —- 4-1-104>>

4-1-103 द्रोणपर्वतजीवन्तादन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये ऽन्यतरस्यां फक् प्रत्ययो भवति। इञो ऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथम् अनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते। न एव अत्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानींतनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1089 द्रोणपर्वत। अनादिरिति। अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः। अ\उfffदात्थाम्नीति। द्रोणाचार्यस्यानन्तरापत्ये अ\उfffदात्थाम्नि `द्रौणायन' इति प्रयोग इत्यर्थः। तदिदं `बाह्वादिभ्यश्चे'ति सूत्रे भाष्ये स्पष्टम्।

तत्त्वबोधिनी

910 अनादिरिति। अ\उfffदात्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः। अ\उfffदात्थाम्नीत्यादि। द्रोणाचार्यस्यानन्तरापत्ये अ\उfffदात्थाम्नि `द्रौणायन'इति प्रयोगो भाक्त इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.