Table of Contents

<<3-4-79 —- 3-4-81>>

3-4-80 थासः से

प्रथमावृत्तिः

TBD.

काशिका

टितः इत्येव। टितो लकारस्य यः थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

512 टितो लस्य थासः से स्यात्. एधसे. एधेथे. एधध्वे. अतो गुणे. एधे. एधावहे. एधामहे..

बालमनोरमा

82 थासः से। `से' इति लुप्तप्रथमाकम्। एधस इति। थासि शपि थासः सेभावः। एधेथे इति। लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः। एधध्व इति। लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम्। लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति– अतो गुणे इति। `अतो गुणे'इति पररूपे वृद्ध्यपवादे कृते सति `एधे' इति रूपमित्यर्थः। एधावहे इति। लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः। एधमह इति। लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः। महिङिति ङकारस्तङ्प्रत्ययार्थः। इति लट्प्रक्रिया।

तत्त्वबोधिनी

63 एकारोच्चारणं ज्ञापनार्थमिति `लिटस्तझयो'रित्यत्र स्फुटीभविष्यति। अतो गुणे इति। इट एत्वे कृते आद्गुणं बाधित्वा वृद्धौ प्राप्तायामनेन पररूपमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.