Table of Contents

<<3-4-80 —- 3-4-82>>

3-4-81 लिटस् तझयोरेशिरेच्

प्रथमावृत्तिः

TBD.

काशिका

लिडादेशयोः तझयोः यथासङ्ख्यम् एशिरेचित्येतावादेशौ भवतः। शकारः सर्वादेशार्थः। चकारः स्वरार्थः। पेचे, पेचाते, पेचिरे। लेभे, लेभाते, लेभिरे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

515 लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः. एधाञ्चक्रे. एधाञ्चक्राते. एधाञ्चक्रिरे. एधाञ्चकृषे. एधाञ्चक्राथे..

बालमनोरमा

87 लिटस्तझयो। ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत– एकारोच्चारणमिति। ज्ञापनस्य फलमाह- - तन डारौरसां नेति डा रौ रस्–एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः। वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम्। कृ ए इति स्थित इति। तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः।

तत्त्वबोधिनी

68 एशिति शकारकरणकारविशिष्टतकारस्यादेशत्वाय।

Satishji's सूत्र-सूचिः

वृत्तिः लिडादेशयोस्तझयोर् “एश्” “इरेच्” एतौ स्तः। When they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.

उदाहरणम् – ववृते (वृतुँ वर्तने १. ८६२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

वृत् + लिँट् 3-2-115
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वृत् + त 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= वृत् + एश् 3-4-81, 1-3-10, 1-1-55
= वृत् + ए 1-3-3, 1-3-9
= वृत् वृत् + ए 6-1-8
= वर् त् वृत् + ए 7-4-66, 1-1-51
= व वृत् + ए 7-4-60

Example continued below -

ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन - वार्त्तिकम्

When 1-2-5 असंयोगाल्लिट् कित् and 7-3-86 पुगन्तलघूपधस्य च are simultaneously applicable in the situation where a लिँट् affix follows a धातु: that has ऋकार: as the penultimate letter, 1-2-5 (even though an earlier rule in the अष्टाध्यायी) shall prevail over 7-3-86.
Note: This वार्त्तिकम् is required only in the case where a ऋकार: is the उपधा (penultimate letter) of a धातु:। In the cases where a इकार: or उकार: is the उपधा of a धातु:, no वार्त्तिकम् is required because in these cases 1-2-5 is a नित्य-कार्यम् (it applies regardless of 7-3-86) and hence prevails as per the परिभाषा – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:।

Example continued from above -

व वृत् + ए As per the वार्त्तिकम् above, 1-2-5 applies first (before 7-3-86) and makes “ए” a कित्-प्रत्यय:। Then 1-1-5 stops 7-3-86. Note: If 7-3-86 (along with 1-1-51) would apply first, then we would have a संयोग: preceding the ए-प्रत्यय: and hence 1-2-5 could not be applied.
= ववृते।

Similarly ववृतिरे (वृतुँ वर्तने १. ८६२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

Note: When लिँट् is used in कर्मणि प्रयोग:, we cannot apply 3-1-67 सार्वधातुके यक् because of 3-4-115 लिट् च। Recall that as per 1-3-13 भावकर्मणोः, only आत्मनेपदम् can be used in the passive.

So for example ददृशे (दृशिँर् प्रेक्षणे १. ११४३, लिँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।