Table of Contents

<<3-4-70 —- 3-4-72>>

3-4-71 आदिकर्मणि क्तः कर्तरि च

प्रथमावृत्तिः

TBD.

काशिका

आदिकर्मणि यः क्तो विहितः स कर्तरि भवति। चकाराद् यथाप्राप्तं भावकर्मणोः। आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्य अयम् अर्थनिर्देशः। प्रकृतः कटं देवदत्तः, प्रकृतः क्तो देवदत्तेन, प्रकृतम् देवदत्तेन। प्रभुक्त ओदनं देवदत्तः, प्रभुक्त ओदनो देवदत्तेन, प्रभुक्तं देवदत्तेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

860 आदिकर्मणि क्तः कर्तरि च। चाद्भावकर्मणोरिति। `तयोरेव कृत्ये'त्यतस्तदनुवृत्तेरिति भावः। `प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः' इति भाष्ये उदाह्मतम्। आरभ्यमाणकरणक्रियेति बोधः।

तत्त्वबोधिनी

705 आदिकर्मणीति। आद्येषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाऽभावान्निष्ठा न प्राप्नोतीति वचनम्, आदिकर्मणि क्तस्य कर्तरि विधानार्थं चेत्याहुः। चादिति। अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.