Table of Contents

<<3-4-71 —- 3-4-73>>

3-4-72 गत्यर्थाक्रमकश्लिषशीङ्स्थाऽअसवसजनरुहजीर्यतिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

गत्यर्थभ्यो धातुभ्यो ऽकर्मकेभ्य श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति। चकाराद् यथाप्राप्तं च भावकर्मणोः। गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामन्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन। अकर्मकेभ्यः ग्लानो भवान्, ग्लानं भवता। आसितो भवान्, आसितं भवता। श्लिष उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता। शीङ् उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता। स्था उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता। आस उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता। वस अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता। जन अनुजातो माणवको माण विकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन। रुह आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता। जीर्यति अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृपली देवदत्तेन, अनुजीर्णं देवदत्तेन। श्लिषादयः सोपसर्गाः सकर्मका भवन्ति, तदर्थम् एषाम् उपादानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

889 गत्यर्थ। गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः। `लः कर्मणि च भावे चे'त्यतो भावे कर्मणीति `आदिकर्मणि क्तः कर्तरि चे'त्यतः कर्तरि इति चानुवर्तते। तदाह– एभ्य इत्यादिना। कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः। गङ्गां गत इति। कर्तरि क्तः। गङ्गां प्राप्त इति। `आप्लृ व्याप्तौ' उपसर्गवशाद्गतौ वर्तते। अकर्मकादुदाहरति–म्लान इति। क्षीण इत्यर्थः। `संयोगादेः' इति निष्ठानत्वम्। आश्लिष्ट इति। आलिङ्गितवानित्यर्थः। नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह– शेषमधिशयित इति। शेषे शयितवानित्यर्थः। `अधीशीङ्?स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः। वैकुण्ठमधिष्ठित इति। वैकुण्ठे स्थिवानित्यर्थः। `अधिशीङ्स्थासा'मिति वैकुण्ठः कर्म। अतो नाऽकर्मकत्वादिह प्राप्तिः। शिवमुपासित इति। शिवं परिचरितवानित्यर्थ-। उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः। हरिदिनमुपोषित इति। `वसतिक्षुधो'रिति इट्। यजादित्वात्संप्रसारणम्। `शासी'ति षः। हरिदिने न भुक्तवानित्यर्थः। `उपान्वध्याङ्वसः' इति हरिदिनं कर्म। ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः। राममनुजात इति। अनुकृतवानित्यर्थः। अनुसृत्य जातवानिति वा। `ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः। गरुडमारूढ इति। उपर्याक्रान्तवानित्यर्थः। वि\उfffदामनुजीर्ण इति। हतवानित्यर्थः। व्याप्तवानिति वा। अकर्मकत्वाऽभावादप्राप्तिः। जृ?धातोः कर्तरि क्तः। `ऋतः' इतित इत्त्वं। रपरत्वं। `हलि चे ' ति दीर्घः। `रदाभ्या'मिति नत्वं। णत्वम्। पक्षे इति। कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः।

तत्त्वबोधिनी

731 गत इति। `अनुदात्तोपदेशे'ति मलोपः। प्राप्त इति। प्रपूर्व आप्लृ व्याप्तौ। व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः। ग्लान इति। ग्लै हर्षक्षये। अकर्मकोऽयम्। `आदेच' इत्यात्वे `संयोगादेरात' इति नत्वम्। शेषमिति। `अधिशीङस्थासां कर्मे'ति कर्मत्वम्। अधिष्ठित इति। `द्यतिस्यती'ति इत्त्वम्। उपोषित इति। `वसतिक्षुधो'रितीट्। `शासिवसी'ति षत्वम्। अनुजीर्ण इति। जृ?ष् वयोहानौ। `ऋत इद्धातोः' `हलि चे'ति दीर्घः। नत्वणत्वे।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्य: कर्तरि क्त: स्यात्। भावकर्मणोश्च । When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) -
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

उदाहरणानि -

कर्तरि – रामो वनं गत:।
भावे – रामेण गतम्।
कर्मणि – रामेण वनं गतम्।

कर्तरि – गङ्गां प्राप्त:।

कर्तरि – ग्लान: स:।
भावे – तेन ग्लानम्।

कर्तरि – उपासितो गुरुं भवान्।
भावे – उपासितं भवता।
कर्मणि – उपासितो गुरुर्भवता।