Table of Contents

<<3-4-63 —- 3-4-65>>

3-4-64 अन्वच्यानुलोम्ये

प्रथमावृत्तिः

TBD.

काशिका

अन्वक्शब्दे उपपदे भवतेर् धातोः आनुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यम् अनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानम्। अन्वग्भूय आस्ते, अन्वग् भूत्वा आस्ते, अन्वग्भावम् आस्ते। आनुलोम्ये इति किम्? अन्वग् भूत्वा तिष्ठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1161 अन्वच्या। नन्विह `अचः' इत्यकारलोपे `च्वौ' इति पूर्वस्याऽणो दीर्घऽनूचीति निर्देष्टुमुचितम्। `द्युप्रागपागि'ति सूत्रे `प्रतीचोय'दितिवतो। एवं `तिर्यच्यपवर्गे' इति सूत्रेऽपि `तिरश्ची'त्येव निर्देष्टुमुचितमिति चेत्। अत्र केचित्– शास्त्रोक्तं कार्यमर्थवत्येव भवति। अर्थश्च लोके प्रसिद्ध एव गृह्रते। `अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः' इति न्यायात्। अतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति। तच्चिन्त्यम्। एवं तर्हि `क्षियो दीर्घात्' इत्यादावियङादिकं न स्यात्। `प्रतीचो य'दित्यपि न सिध्येदिति। वस्तुतस्तु `प्रकृतिवदनुकरण'मित्यस्य वैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषखः। वैकल्पिकत्वं च `यत्तदेतेभ्यः' इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम्। अग्रत इत्यादि। अन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम्। पृष्ठतो भूत्वत्यर्थ इति। इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यते, तस्य देशविशेषमात्र पर्यवसानात्। प्रमाणान्तरेण क्वचिदिहानुकूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या। इत्युत्तरकृदन्तम्।\र्\निति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणसेवकज्ञानेन्द्रसरस्वतीकृतायां सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां कृदन्तं समाप्तम्। समाप्ता चेयं

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.