TBD.
द्वितीयायाम् इत्येव। द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने च अर्थे गम्यमाने। विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः। तात्पर्यम् आसेवा। द्रव्ये व्याप्तिः, क्रियायामासेवा। गेहानुप्रविशम् आस्ते। समासेन व्याप्त्यासेवयोरुक्तत्वात् नित्यवीप्सयोः 8-1-4 इति द्विर्वचनं न भवति। असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य। तथा च वक्ष्यति सुप्सु वीप्स, तिङ्क्षु नित्यता इति। गेहं गेहम् अनुप्रवेशम् आस्ते। आसेवायाम् गेहम् अनुप्रवेशम् अनुप्रवेशम् आस्ते। पति गेहानुप्रपातम् आस्ते गेहं गेहम् अनुप्रपातम् आस्ते, गेहम् अनुप्रपातम् अनुप्रपातम् आस्ते। पदि गेहानुप्रपादम् आस्ते, गेहं गेहम् अनुप्रपादम्, गेहम् अनुप्रपादम् अनुप्रपादम्। स्कन्दि गेहावस्कन्दम् आस्ते, गेहं गेहम् अवस्कन्दम्, गेहम् अवस्कन्दम् अवस्कन्दम्। व्याप्यम् आनासेव्यमानयोः इति किम्? गेहम् अनुप्रविश्य भुङ्क्ते। ननु आभीक्ष्ण्ये णमुल् विहित एव, आसेवा आभीक्ष्ण्यम् एव, किम् अर्थं पुनरासेवायां णमुलुच्यते? क्त्वानिवृत्त्यर्थम् इति चेत्, न, इष्टत्वात् तस्य। द्वितीयोपपदार्थं तर्हि वचनम्, उपपदसमासः पक्षे यथा स्यात्। तेन हि सति उपपदाभावः।
TBD.
–
–
1630 उपपदसंज्ञार्थमिति। `विशिपती'ति सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः।
TBD.